________________
४
देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः
[ गाथा विघ्नानि-दान-लाभ-भोग-उपभोग-वीर्यान्तरायलक्षणानि पञ्च, आवरणानि-मतिज्ञानाववरण-श्रुतज्ञानावरणा ऽवधिज्ञानावरण मनःपर्यायज्ञानावरण-केवलज्ञानावरण-चक्षुर्दर्शनावरणा-5चादर्शनावरणा ऽवधिदर्शनावरण-केवलदर्शनावरणलक्षणानि नव इत्येतासां चतुर्दशप्रकृतीनां "सुहुम" ति सामान्योक्तावपि क्षपकसूक्ष्मसम्परायश्चरमसमये वर्तमानो जघन्यानुभागं बध्नाति । एता ह्यशभप्रकृतयः, अशुभप्रकृतीनां च सर्वविशुद्ध एव जघन्यानुभागं बध्नाति, प्रस्तुतप्रकतिबन्धकेषु त्वयमेव सर्वविशुद्ध इति । तथा त्रिकशब्दस्य प्रत्येकं सम्बन्धात् सूक्ष्मत्रिक-सूक्ष्माऽपर्याप्तक-साधारणाख्यं, विकलत्रिकं-द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिय जातिलक्षणम् , “आउ" त्ति आय पि-देव-मनुष्य-तिर्यङ्-नारकायुभेदाचत्वारि, क्रियषट्कं-देवगति-देवानुपूर्वी--नरकगति-नरकानुपूर्वी-वे क्रियशरीर-वेक्रियाङ्गोपाङ्गलक्षणम् इत्येतासां षोडशप्रकृतीनां "मणुतिरिय" त्ति मनुशब्देन मनुष्या उच्यन्ते, ततो मनुष्याश्च तियश्चश्व मनुष्य-तियश्चो जघन्यानुभागं कुर्वन्ति । अत्र हि तिर्यङ्-मनुष्यायुद्धयं वर्जयित्वा शेषाश्चतुर्दशप्रकृतीदेव-नारका भवप्रत्ययादेव न बध्नन्ति । तिर्यङ्-मनुष्यायुर्द्वयमपि यदा जघन्यस्थितिक बध्यते तदा जघन्यरसं क्रियते, देव-नारकास्तु तद् जघन्यं न बध्नन्त्येव, तत्स्थितिकेषु तेषामुत्पत्त्यभावात् । तस्माद् नैतत् प्रकृतिषोडशकं देव-नारका बध्नन्ति, अतस्तियङ्-मनुष्याणामेव ग्रहणम् । तत्र नारकायुषोऽशुभप्रकृतित्वात् तद्वन्धकेषु सर्वविशुद्धा दशवर्षसहस्रलक्षणजघन्यस्थितिवन्धकाले जघन्यानुभागं तिर्यङ्-मनुष्याः कुर्वन्ति, शेषस्य त्वायुस्त्रयस्य शुभप्रकृतित्वात् तद्वन्धकेषु सर्वसंक्लिष्टा आत्मीयात्मीयसवेजघन्यस्थितिबन्धकालेऽमी जघन्यानुभागं रचयन्ति । नरकद्विकस्याशुभप्रकृतित्वाद् जघन्यस्थितिबन्धकाले तद्वन्धकेषु सर्वविशुद्धा एते जघन्यानुभागं विदधति । देवद्विकस्य शभप्रकृतित्वाद् आत्मीयोत्कृष्टस्थितिबन्धकाले तत्प्रायोग्यसंक्लिष्टा अमी जघन्यानुभागं बध्नन्ति । अतिसंक्लिष्टो नरकादियोग्यं बनीयादिति तत्प्रायोग्यसंक्लेशग्रहणम् । एवमन्यत्रापि द्रष्टव्यम् । वैक्रियद्विकस्यापि शुभप्रकृतित्वाद् नरकगतिबन्धसहितां सर्वोत्कृष्टां स्थिति बध्नन्तो जघन्यानुभागं निवर्तयन्ति । विकलत्रिक-मूक्ष्मत्रिकयोस्त्वशभप्रकृतित्मात तत्प्रायोग्यविशद्धा अमी सर्वजघन्यमनुभागं बध्नन्ति । अतिविशद्धा मनुष्यादिप्रायोग्यं बध्नन्तीति तत्प्रायोग्यविशद्धग्रहणमिति । भाविताः षोडश प्रकृतयः । तथा उद्योतम् औदारिकद्विकम्-औदारिकशरीरओदारिकाङ्गोपाङ्गलक्षणम् इत्येतासां तिसृणां प्रकृतीनां “अमरा निरय" त्ति सामान्यतोऽमरा:देवाः, निरयाः-निर्गतम् अयम्-इष्टफलं दैवं कर्म येभ्यस्ते निरयाः-नारकाः सर्वोत्कृष्टसंक्लेशे वर्तमानास्तिर्यक्प्रायोग्यं बध्नन्तो जघन्यानुभागं कुर्वन्ति, केवलमौदारिकाङ्गोपाङ्गमीशानादुपरि
१ छा० सं० १ त० म० जातिरूपं ।।