________________
६८-७१]
शतकनामा पञ्चमः कर्मग्रन्थः ।
"अण" त्ति अनन्तानुबन्धिनः-क्रोध-मान-माया-लोभाख्याश्चत्वारः मिथ्यात्वम् इत्येतासामष्टानां प्रकृतीनां स्वगुणस्थानचरमसमये वर्तमानो मिथ्यादृष्टिः "संजमुम्मुहु" ति सम्यक्त्वसंयमाभिमुखः-सम्यक्त्वसामायिक प्रतिपित्सुः 'मन्दरसं' जघन्यानुभागं बध्नाति, प्रस्तुतप्रकृतिवन्धकेष्वयमेव सर्वविशुद्ध इति । तथा कषायशब्दस्य प्रत्येकं योगाद् द्वितीयकषायचतुष्टयस्य--अप्रत्याख्यानावरणलक्षणस्य "अविरय" त्ति अविरतसम्यग्दृष्टिः स्वगुणस्थानचरमसमये वर्तमानः संयमोन्मुख इत्यत्रापि योज्यम् , संयमाभिमुखः-देशविरतिसामायिक प्रतिपित्सुमन्दरसं वध्नाति, प्रस्तुतप्रकृतिबन्धकेष्वस्यैव विशद्धत्वात् । तथा तृतीयकषायचतुष्टयस्य-प्रत्याख्यानावरणकषायलक्षणस्य "देस" ति देशविरतः स्वगुणस्थानचरमसमये वर्तमानः संयमोन्मुखः-- सर्वविरतिसामायिक प्रतिपित्सुमन्दरमं करोति, तत्प्रकृतिबन्धकेष्वस्यैव विशुद्धतरत्वात् । तथा 'प्रमत्तः' प्रमत्तयतिः संयमोन्मुखः- अप्रमत्तसंयमं प्रतिपित्सुः, अरतिश्च शोकश्चाऽरति-शोकं तस्मिनरति शोके अरति-शोकयोर्मन्दरसं विदधाति, इदं हि प्रकृतिद्वयमशुभत्वात् सर्वविशुद्ध एव जघन्यरसं करोति, तद्वन्धकेषु त्वयमेव सर्वविशुद्ध इति ।।६९।।
अपमाइ हारगदुगं, दुनिद्दअसुवन्नहासरइकुच्छा ।
भयमुवघायमपुवो, अनियहो पुरिससंजलणे ॥७॥ 'आहारकद्विक आहारकशरीरा-ऽऽहारकाङ्गोपाङ्गलक्षणं न प्रमाद्यति इत्येवंशीलोऽप्रमादीअप्रमत्तयतिः अनन्तरमेव प्रमत्तभावं प्रतिपित्सुमन्दरसं-जघन्यरसं करोतीति यावत् । इदं हि प्रकृतिद्वयं शुभस्वरूपत्वात् संक्लिष्ट एव जघन्यरसं करोति, तद्वन्धकेषु त्वयमेवातिसंक्लिष्ट इति भावः । तथा 'दुनिद्द' ति द्वयोन्द्रियोः समाहारो द्विनिद्र-निद्रा-प्रचलालक्षणं "सु" शोभनं “वन्नं" ति वर्णचतुष्कं न सुवर्णम् असुवर्णम् अप्रशस्तवर्णचतुष्कम् अप्रशस्तवर्णगन्ध-रस-स्पर्शा इत्यर्थः, हास्यं रतिः “कुच्छ” त्ति जुगुप्सा भयम् उपघातम् इत्येतासामेकादशप्रकृतीनां "अपुव्व" ति सामान्योक्तावपि क्षपकापूर्वकरण एकैकस्मिन्नात्मीयात्मीयबन्धव्यवच्छेदसमये जघन्यानुभागं बध्नाति । एता ह्यशुभप्रकृतयः, अशुभप्रकृतीनां च सर्वविशुद्ध एव जघन्यानुभागं बध्नाति, प्रस्तुतप्रकृतिबन्धकेषु स्वयमेव सर्वविशुद्ध इति । तथा "पुरिस" ति पुरुषवेदः संज्वलनाःक्रोध-मान-माया-लोभाश्चत्वार इत्येतस्य प्रकृतिपञ्चकस्यैकैकस्मिन्नात्मीयात्मीयबन्धव्यवच्छेदसमये "अनियट्टि" ति सामान्योक्तावपि क्षपकाऽनिवृत्तिवादरो जघन्यानुभागं निवर्तयति । एता ह्यशुभप्रकृतयः, अशुभप्रकृतीनां च सर्वविशुद्ध एव जघन्यानुभागं बध्नाति, प्रस्तुतप्रकृतिबन्धकेषु त्वयमेव सर्वविशुद्ध इति ॥७०।।।
विग्यावरणे सुहमी, मणुतिरिया सुहमविगलतिगआऊ । वेउव्विछक्कममरा, निरया उज्जोयउरलागं ॥७१ ॥