________________
देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः
[ गाथा
सेसाणं” ति चतुर्गतिका अपि मिथ्यादृष्टयः तुशब्दात् तीव्रोत्कटकषाया जीवाः 'शेषाणां भणितोद्धरितानां ज्ञानावरणपञ्चक-दर्शनावरणनवका--ऽसात वेदनीय मिथ्यात्व- कषायपोडशक-नोकपायनवक- प्रथमवर्ज संस्थानपञ्चक-प्रथमान्तिमवर्ज संहननचतुष्का-प्रशस्तवर्ण- गन्ध-रस-स्पर्श-उपघाता-ऽप्रशस्तविहायोगति-अस्थिरा शुभ दुर्भग- दुःस्वराऽनादेयाऽयशः कीर्ति- नीचे गोत्रा -ऽन्त रायपञ्चकलक्षणानामष्टषष्ट्यशुभप्रकृतीनां तीव्रमुत्कृष्टानुभागं बध्नन्ति । तत्र हास्य-रति-स्त्रीवेद-पुरं वेदप्रथमान्तिमवर्जसंस्थान- संहननलक्षणा द्वादश प्रकृतीर्वर्जयित्वा शेषाः 'पट्पञ्चाशत्प्रकृतीरुत्कृष्टतत्प्रायोग्य संक्लेशयुक्तास्तीवानुभागाः कुर्वन्ति । सर्वोत्कृष्टसंक्लेशो हि तावद् हास्य-रतियुगलमतिक्रम्य अरति शोकयुगलदेव रचयति, स्त्रीवेद- पु देदौ त्वतिक्रम्य नपुंसकवेदं निर्वर्तयति । संस्थानसंहननेष्वपि सर्वसंक्लिष्टो विंशतिसागरोपमकोटीकोटीस्थिति के हुण्ड सेवार्ते निर्वर्तयति । ततो विशुद्धोऽष्टादशसागरोपमकोटीकोटीस्थितिके वामन कीलिके रचयति, ततो विशुद्धतरः षोडशसागरोपमकोटीकोटीस्थितिके कुब्जा ऽर्धनाराचे बध्नाति ततोऽपि विशुद्ध चतुर्दशसागरोपमकोटीकोटीस्थितिके सादि-नाराचे निर्वर्तयति, ततोऽपि विशुद्ध द्वादशसागरोपमकोटीकोटीस्थितिके न्यग्रोधपरिमण्डल- ऋषभनाराचे उपकल्पयति, ततोऽपि विशुद्ध दशसागरोपमकोटीकोटी स्थिति के समचतुरस्र-वज्रर्षभनाराचे वध्नाति । तस्मात् प्रथमा-ऽन्तिमवर्जसंस्थानचतुष्टयस्य तथा प्रथमा-न्तिमवर्जसंहननचतुष्टयस्य चात्मीयात्मीयोत्कृष्टस्थितिबन्धकाले तत्प्रायोग्य संक्लेशयुक्ता अभी उत्कृष्टानुभागं बध्नन्ति, हीनाधिकसंक्लेशेऽन्यान्यबन्धसम्भवात् तत्प्रायोग्यसंक्लेशग्रहणमिति भावः । प्रथमा-ऽन्तिमसंस्थान-संहननवर्जनं किमर्थम् ? इति चेद् उच्यते - हुण्डसंस्थानं तावत् "चउगहमिच्छा उ सेसाणं" ति गाथावयवे एवाभिहितम् समचतुरस्रसंस्थानं तु "विउविसुराहारदुगं" ( गा० ६७) इत्याद्यनन्तरगाथायां भावितम् वज्रर्वमनाराचसंहननं तु “सम्मसुरा मणुयउरलदुगवरं" इत्यत्र निरूपितम्, सेवार्तसंहननं पुनः “तिरिदुगछेवसुरनिरया" ( गा० ६६) इत्यत्र भावितमिति पारिशेष्याद् मध्यमसंस्थानचतुष्टयं मध्यम संहननचतुष्टयं च तत्प्रायोग्यसंक्लेशे वर्तमानाश्चतुर्गतिका मिथ्यादृष्टयो जीवा उत्कृष्टरसं कुर्वन्तीत्युक्तमिति ॥ ६८॥
"
अभिहिताः सर्वप्रकृतीः प्रतीत्योत्कृष्टानु भागबन्धस्वामिनः । इदानीं सर्वप्रकृतीरुद्दिश्य जघन्यानुभागबन्धस्वामिनश्चिन्तयन्नाह
श्रोणतिगं अण-- मिच्छं, मंदरसं संजमुम्मुहो मिच्छो । Performer अविरय, देस पमत्तो अरइसोए ।। ६९ ।। स्त्यानद्धर्या उपलक्षितं त्रिकं स्त्यानर्द्धित्रिकं - निद्रानिद्रा प्रचलाप्रचला- स्त्यानद्धिलक्षणम्
८२
.
१ अत्र पट्पञ्चाशत्यकृतीनामुत्कृष्ट संक्लेशे नैव ज्येष्ठानुभागबन्धप्रायोग्यत्वम् | हास्यादिद्वादशप्रकृतीनां तूत्कृष्टसंक्लेशे बन्धाभावेन तत्प्रायोग्य ज्येष्ठसंक्लेशेन ज्येष्ठरसबन्धार्ह त्वम् परिभावनीयम् ।