________________
६६-६८ ]
शतकनामा पञ्चमः कर्मग्रन्थः ।
नपि योग्यतया राज्यार्हकुमारराजवत् क्षपक उक्त इति द्रष्टव्यम् । तत्र सातावेदनीय यशः - कीर्तिउच्चैगोत्रलक्षणप्रकृतित्रयस्य क्षपकसूक्ष्मसम्परायचरमसमये वर्तमान उत्कृष्टानुभागं बध्नाति, स्वगुणस्थान शेष समयेभ्योऽन्येभ्यश्च तद्भन्धकेभ्योऽस्यानन्तगुणविशुद्धत्वादिति । शेषाणां त्वेको - नत्रिंशतः प्रकृतीनां क्षपापूर्वकरणो देवगतिप्रायोग्यबन्धव्यवच्छेदसमये वर्तमानस्तीत्रमनुभागं नाति, तद्बन्धकेष्वस्यैवातिविशुद्धत्वादिति ॥ ६७॥
८१
तमतमगा उज्जोयं सम्मसुरा मणुयउरलदुगवरं । अपमत्तो अमराउं, चउगइमिच्छा उसे साणं ||६८।।
तमस्तमा - अधः सप्तमनरकपृथिवी तदाधारा नारकास्तमस्तमका उच्यन्ते, अमी उद्योतनामकर्मण उत्कृष्टानुभागं बध्नन्ति । तथाहि - कश्चित् सप्तमनरकपृथिवीनारको यथाप्रवृत्त्यादीनि त्रीणि करणानि कृत्वाऽनिवृत्तिकरणे स्थितो मिथ्यात्वस्यान्तरकरणं करोति, तत्र च कृते मिथ्यात्वस्य स्थितिद्वयं भवति, अन्तरकरणाद् अधस्तनी प्रथमा स्थितिरन्तमुहूर्तमात्रा, तस्मादेवोपरितनी शेषाद्वितीया स्थितिः । स्थापना। तत्राधस्तनस्थितेर्मिथ्यात्व वेदनस्य
000 00000 0000000 000000000 0000000 ०००००
चरमसमये उद्योतस्य तीव्रमनुभागं बध्नाति । इदं हि 'शुभप्रकृतित्वाद् विशुद्ध एवोत्कृष्टरसं करोति, तद्बन्धकेषु त्वयमेव सर्वविशुद्धः, अन्यस्थानवर्ती हि एतावत्यां विशुद्धौ वर्तमानो मनुष्यप्रायोग्यं देवप्रायोग्यं वा बध्नीयात् । इदं तु तिर्यग्गतिप्रायोग्यबन्ध सहचरितमेव बध्यत इति सप्तमपृथिवीनारकस्यैवोपादानम्, तत्र हि यावत् किश्चिदपि मिथ्यात्वमस्ति तावत् क्षेत्रानुभावत एव तिर्यक्प्रायोग्यमेव बध्यत एवेति भावः । तथा द्विकशब्दस्य प्रत्येकं सम्बन्धाद् मनुज द्विकं - मनुजगति- मनुजानुपूर्वी रूपम्, औदारिकद्विकम् - औदारिकशरीर-औदारिकाङ्गोपाङ्गाख्यम् "ब" ति वज्रभनाराचसंहननम् इत्येतासां पञ्चानां प्रकृतीनां "सम्मसुर" त्ति सम्यग्दृष्टिसुरा अत्यन्त विशुद्धास्तीवानुभागमेकं द्वौ वा समयौ यावद् बध्नन्ति । मिथ्यादृष्टेहि सम्यग्दृष्टिरनन्तगुणविशुद्ध इति सम्यग्दृष्टेर्ग्रहणम् । नारका अपि हि विशुद्धाः सन्त एताः प्रकृतीरूपरचयन्ति, केवलं वेदनानिवहविलीकृतत्वाद् अमरवत् प्रकृष्टभावनिबन्धनतीर्थकरादिसमृद्धिकछुदायसन्दर्शन-तद्वचः श्रवण- नन्दीश्वरादिचैत्यदर्शनाद्यसम्भवाच्च तथाविश्वविशुद्धयसम्भवात् तेषामिहाग्रहणम् । तिर्यङ्- मनुष्याणां पुनरतिविशुद्धानां देवगतिप्रायोग्यबन्धकत्वात् तद्योग्यप्रस्तुतप्रकृतिबन्धासम्भव इति सर्वव्युदासेन सुरस्यैवोपादानम् । तथा 'अप्रमत्तः' अप्रमत्तयतिरमरायुरुत्कृष्टानुभागं वघ्नाति, अपरेभ्यो देवायुर्वन्धकमिथ्यादृष्टि- अविरत सम्यग्दृष्टि देश विरतादिभ्योऽस्यानन्तगुणविशुद्धत्वादिति ।
तदेवं द्विचत्वारिंशतः पुण्यप्रकृतीनां चतुर्दशानां त्वशुभप्रकृतीनां तीव्रानुभागबन्ध स्वामिन उक्ताः | साम्प्रतं शेषाणामष्टषष्टयशुभप्रकृतीनां बन्धस्वामिनो निरूपयन्नाह - "चउगइमिच्छा उ
11