________________
देवेन्द्रसूरिविर चतः स्वोपज्ञटीकोपेतः
[ गाथा
त्रिकं - द्वीन्द्रिय-त्रीन्द्रिय- चतुरिन्द्रियलक्षणं सूक्ष्मत्रिकं - सूक्ष्माऽपर्याप्त साधारणाख्यं नरकत्रिकंनरकगति- नरकानुपूर्वी - नरकायुः स्वरूपम्, आयुःशब्दस्य प्रत्येकं सम्बन्धात् तिर्यगायुर्मनुजायुः इत्येतासामेकादशप्रकृतीनां कोलिकनलकन्यायेन मिथ्यादृष्टिशब्दस्येहाप्यनुकर्षणाद् मिथ्यादृष्टयः तिर्यञ्चश्च नराश्व तिर्यग् नरास्त एवोत्कृष्टानुभागं बध्नन्ति न देवनारका इत्यर्थः । तथाहितिर्यङ् - मनुष्यायुर्वर्जा नवप्रकृतीभवप्रत्ययादेव नारका न बध्नन्ति, तिर्यङ् - मनुष्यायुषी अध्यत्र भोगभूमियोग्ये उत्कृष्टरसे प्रकृते अतस्ते अमी न बध्नन्ति कुतस्तेषां तदनुभागबन्धसम्भवः ? तस्मात् संज्ञिनो मिथ्यादृष्टयस्तिर्यङ् - मनुष्या एतत्प्रायोग्य विशुद्धा एते आयुषी बघ्नन्ति, नारकायुषस्तु तत्प्रायोग्यसंक्लिष्टा उत्कृष्टरसं बध्नन्ति, अतिसंक्लिष्टस्यायुर्वन्धनिषेधात् नरकद्विकं त्वेत एव सर्वसंक्लिष्टा बध्नन्ति एकं द्वौ वा समयौ यावद्, उत्कृष्टसंक्लेशस्यैतावन्मात्र कालत्वादेव । शेषाणां तु विकलत्रिक सूक्ष्मत्रिकलक्षणानां षण्णां प्रकृतीनामेत एच तत्प्रायोग्यसंक्लिष्टा उत्कृष्टानुभागं बध्नन्ति, सर्वसंक्लिष्टा हामी प्रस्तुतप्रकृतिबन्धमुल्लङ्घन्य नरकप्रायोग्यं निर्वर्तयेयुरितिं तन्प्रायोग्यसंक्लेशग्रहणमिति । तथा तिर्यद्विकं तिर्यग्गति - तिर्यगानुपूर्वीस्वरूपं छेदपृष्ठसंहननमित्येतत्प्रकृतित्रयस्य सुरा नारका वा अत्यन्तसंक्लिष्टा उत्कृष्टानुभागं बध्नन्ति । तिर्यङ्-मनुष्या
८०
,
उ
तावति संक्लेशे वर्तमाना नरकगतिप्रायोग्यमेव निर्वर्तयेयुः, न च तद्योग्या एताः प्रकृतयो बध्यन्त इति तद्वय दासेन देव नारकाणां ग्रहणम्, ते हि सर्वसंक्लिष्टा अपि तिर्यग्गतिप्रायोग्यमेव बध्नन्तीति । इह च “व्याख्यानतो विशेषप्रतिपत्तेः " सेवार्तस्येशानादुपरि सनत्कुमारादयो देवा उत्कृष्टानुभागं बध्नन्ति, न त्वीशानान्ताः ते ह्यतिसंक्लिष्टा एकेन्द्रियप्रायोग्यमेव विरचयेयुः, न च तयोग्यमिदं बध्यत इति ।। ६६ ||
बिउविसुराहारदुगं सुखगइवन्नच उतेय जिणसायं । समचउपरघातसदसपणिदिसासुच्च
खवगा
॥६७॥
द्विकशब्दस्य प्रत्येकं सम्बन्धाद् वैक्रियद्विकं वैक्रियशरीर- वैक्रियाङ्गोप ङ्गाख्यं, गुरद्विकं-सुरगति- सुरानुपूर्वीस्वरूपम्, आहारकद्विकम् - आहारकशरीरा -ऽऽहारकाङ्गोपाङ्गलक्षणं, सुखगतिः--प्रशस्तविहायोगतिः, वर्णचतुष्कं -वर्ण- गन्ध-रस- स्पर्शलक्षणं, "डमरुकमणिन्यायाद्" इहापि चतुःशब्दस्य सम्बन्धात् तैजसचतुष्कं - तैजस- कार्मणा - गुरुलघु- निर्माणाख्यं, जिननाम सातावेदनीयम् "समचउ" ति समचतुरस्र' संस्थानम् "परघ" त्ति पराघातनाम त्रसदशकं - त्रस बादर-पर्याप्त-प्रत्येक-स्थिर-शुभ-सुभग-सुस्वरा-ऽऽदेय-यशः कीर्तिस्वभावम्, “पणिदि" त्ति पञ्चेन्द्रियजातिः “सास” त्ति उच्छ्वासनाम उच्चैगोत्रम् इत्येतासां द्वात्रिंशतः प्रकृतीनामुत्कृष्टानुभागं यथासम्भवं ‘क्षपको' सूक्ष्मसम्पराया-पूर्वकरण लक्षणौ कुरुतः | अपूर्वकरणो मोहनीयमक्षपय