________________
शतकनामा पञ्चमः कर्मग्रन्थः ।
तिसूक्ष्मविवरनिकरसङ्कुलानि यथा वासांसि तथा तानि देशघातीनि रसस्पर्धकानि स्तोकस्नेहानि भवन्ति वैमल्यरहितानि च । उक्तं च-
६५-६६
७९
'देसविवात्तणओ, इयरो कडकंबलं संकासो |
"
विविबहुछदभरिओ, अप्पसिणेहो अमिलो य || (पञ्चसं० गा० १५९) इति ।। ६५ ।। प्ररूपितः सप्रपञ्चमनुभागबन्धः । इदानीमुत्कृष्टा नुभागबन्धस्य स्वामिनो निरूपयन्नाहतिव्वमिगथावरायव, सुरमिच्छा विगलसुमन रयतिगं । तिरिमणुयाउ तिरिनरा, तिरिदुगडेबड सुरनिरया ||३६||
तनाः,
1
"
"ग" त्ति एकेन्द्रियजातिः स्थावरनाम आतपनाम इत्येतस्य प्रकृतित्रयस्य "सुरमिच्छ" त्ति सुराः- देवाः मिथ्यादृष्टयः तीव्र मनुभागमुत्कृष्टानुभागं कुर्वन्तीति शेषः अत्र चाविशेपोऋतावपि "व्याख्यानतो विशेषप्रतिपत्तिः" इति न्यायात् सुरा ईशानान्ता एव द्रष्टव्याः नोपरितेषामेकेन्द्रियेषूत्पत्यभावाद् एकेन्द्रियप्रायोग्यप्रकृतित्रयबन्धासम्भवात् । अयमपि चैशानान्तो देव एकेन्द्रिय जाति-स्थावरयोरुत्कृष्टानुभागं सर्वसंक्लिष्टो बध्नाति आतपस्य तु तत्प्राविशुद्ध इति द्रष्टव्यम् । इदं हि शुभप्रकृतित्वाद् विशुद्धया उत्कृष्टरसं जन्यते । साऽपि विशुद्विर्यद्यधिकतरा गृह्यते तदा पञ्चेन्द्रियतिर्यक्प्रायोग्यं मनुष्यप्रायोग्यं वा बध्नीयात् न चातपं तत्प्रायोग्यबन्धे बध्यते, एकेन्द्रियप्रायोग्यत्वादेवेत्यालोच्य तत्प्रायोग्यविशुद्धत्वविशेषणोपादानम् । आह परः- ननु भवत्वेवं, किन्तु मिथ्यादृष्टिदेव एवैतास्तिस्र उत्कृष्टरसाः करोति नान्य इत्यत्र किं निबन्धनम् ? अत्रोच्यते - नारकाणां तावदेता एकेन्द्रियप्रायोग्यत्वात् तत्रोत्पत्यभावाद् बन्ध एव नागच्छन्ति, तिर्यङ् - मनुष्यास्तु यावत्यां विशुद्ध वर्तमानः अयमातपमुत्कृष्टरसं करोति तावत्यां विशुद्धौ वर्तमानाः पञ्चेन्द्रियतिर्यगादिप्रायोग्यमन्यत् किञ्चित् शुभतरमुपरचयेयुः, यावति च संक्लेशे वर्तमानोऽसावे केन्द्रियजाति- स्थावरयोरुत्कृष्टानुभागं बध्नाति तावति संक्लेशे स्थिता अमी नरकगतिप्रायोग्यं निर्वर्तयेयुः, देवास्तूत्कृष्ट संक्लेशेऽपि भवप्रत्ययाद् एकेन्द्रियायोग्यमेव बध्नन्ति, न तु नरकयोग्यमिति तिर्यङ्-मनुष्याणामपि प्रकृतकर्मत्रयोत्कृष्टानुभागबन्धकत्वासम्भवः, सुरा अपि सम्यग्दृष्टयो मनुष्ययोग्यमेव बच्नन्तीति मिध्यादृष्टिग्रहणम् । तस्मादीशानान्ता मिथ्यादृष्टिदेवा यदा आतपस्य सर्वलीं स्थितिमुपकल्पयन्ति तदा तद्भन्धकेष्वतिविशुद्धा अस्योत्कृष्टानुभागं विति यदा तूत्कृष्टसंक्लेशे वर्तमाना एकेन्द्रियजाति-स्थावरयोः सर्वोत्कृष्टां स्थितिमुपरचयन्ति " तदा तयोरुत्कृष्टानुभागं कुर्वत इति स्थितम् । तथा त्रिकशब्दस्य प्रत्येकं सम्बन्धाद् विकल
१ देशविघातित्वादितरः कटकम्बलांशुकसङ्काशः । विविधबहुच्छिद्रभृतोऽल्पस्नेहोऽविमलश्च ॥ २ सं० १-२ छा० दानयोरु ॥