SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [गाथाः मधुरतरो मधुरतमोऽतिमधुरतमश्च रसो यथासङ्खयमेक-द्वि-त्रि-चतुःस्थानिको भवति । एवं च रसोऽशभप्रकृतीनामशुभः शुभप्रकृतीनां शुभ इति । तुशब्दो विशेषणे, स चैवं विशिनष्टि-यथा सप्तदशाशुभप्रकृतीनामेकस्थानिकरसस्पर्धकान्यसङ्ख्य यव्यक्तिव्यक्तत्वाद् असङ्ख्य यानि भवन्ति । तत्र च सर्वजघन्यस्पर्धकरसस्येयं निम्बाग्रुपमा, तदनु चानन्तेषु रसपलिच्छेदेष्वनिक्रान्तेषु तदुत्तरं द्वितीयस्पर्धकं भवति, एवमुत्तरोत्तरक्रमेण प्रवृद्ध-वृद्धतररसोपेतानि शेषस्पर्धकान्यपि भवन्ति । एवं शेषाशुभप्रकृतीनामपि द्वि-त्रि-चतुःस्थानिकरसस्पर्धकान्यसङ्ख्य यव्यक्तिव्यक्तानि प्रत्येकमसवयं यानि भवन्ति, तान्यपि यथोत्तरमनन्तरसपलिच्छेदनिष्पन्नत्वात् परस्परमनन्तगुणरसानि, अत उत्तरोत्तरस्पर्धकान्यप्यनन्तगुणरसानि, किं पुनरशुभानां द्वि-त्रि-चतुःस्थानिका रसा इति । तथाहि-अशुभानां निम्बोपमवीयों य एकस्थानिको रसस्तस्माद् अनन्तगुणवीयों द्विस्थानिकः, ततोऽप्यनन्तगुणवीर्यस्त्रिस्थानिकः, तस्मादप्यनन्तगुणवीर्यश्चतुःस्थानिक इति परस्परं सुप्रतीतमेवानन्तगुणरसत्वमिति । शुभप्रकृतीनां पुनरेकस्थानिको रस एव नास्ति । यश्च शुभानामिक्षपमो रसोऽभिहितः स विस्थानिकरसस्य सर्वजघन्यस्पर्धक एव दृश्यः, तदुत्तरस्पर्धकेषु चानन्तगुणा रसा भवन्ति, एतत् सर्व पञ्चसङ्ग्रहाभिप्रायतो व्याख्यातम् । किश्च केवलज्ञानावरणादिरूपाणां सर्वघातिनीनां विंशतिसङ्ख्यानां प्रकृतीनां सर्वाण्यपि रसस्पर्धकानि सर्वघातीन्येव । देशघातिनीनां पुनमंतिज्ञानावरणप्रभृतिपञ्चविंशतिप्रकृतीनां रसस्पर्धकानि कानिचित् सर्वघातीनि, कानिचिद् देशघातीनि । तत्र यानि चतुःस्थानिकरसानि त्रिस्थानिकरसानि वा रसस्पर्धकानि तानि नियमतः सर्वघातीनि, द्विस्थानिकरसानि पुनः कानिचिद् देशघातीनि कानिचित् सर्वघातीनि, • एकस्थानिकानि तु सवाण्यपि देशघातीन्येव । उक्तं च ___ यानि [सर्वघातीनि] रसस्पर्धकानि सकलमपि स्वघात्यं ज्ञानादिगुणं ध्नन्ति, तानि च स्वरूपेण ताम्रभाजनबद् निश्छिद्राणि. धृतमिवातिशयेन स्निग्धानि, द्राक्षावत् तनुप्रदेशोपचितानि, स्फटिकाभ्रगृहवच्चातीवनिर्मलानि । उक्तं च-- 'जो घाएइ नियगुणं, सयलं सो होइ सघाइरसो। सो निच्छिद्दो निद्धो, तणुओ फलिहब्भहरविमलो ।। (पञ्चसं० गा० १५८) यानि च देशघातीनि रसस्पर्धकानि तानि स्वघात्यं ज्ञानादिगुणं देशतो घ्नन्ति, तदृदयेऽ. वश्यं क्षयोपशमसम्भवात् , तानि च स्वरूपेणानेकविधविवरसङ्घलानि । तथाहि-कानिचिन कर झ्यातिम्रच्छिद्रशतमञ्जुलानि, कानिचित् कम्बल इव मध्यमविवरशतसङ्घलानि, कानिचित पुनर ५ यो घातयति निजगुणं सकलं स भवति सर्वघातिरसः। स निदिछद्रः स्निग्धः तनुकः स्कटिका गृहविमलः ।। २ पञ्चसंग्रहे तु °इ सविसयं, सय' इति पाठः ।।
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy