________________
६४-६५ ]
शतकनामा पञ्चमः कर्मग्रन्थः ।
न संक्लेशस्थानानीति तैरध्यवसायस्थानैर्विशुद्धिस्थानान्यधिकानि । एवं च स्थितेऽत्यन्तविशुद्धा वर्तमानः शुभप्रकृतीनां चतुःस्थानिकं रसमभिनिर्वर्तयति, अत्यन्तसंक्लेशे तु वर्तमानस्य शुभप्रकृतयो बन्ध एव नागच्छन्ति । या अपि वैक्रिय - तैजस-कार्मणाद्याः शुभा नरकप्रायोग्याः संक्लिटोsपि बध्नाति तासामपि स्वभावात् सर्वसंविलष्टोऽपि द्विस्थानिकमेव रसं विदधाति । येषु मध्यमाध्यवसायस्थानेषु शुभप्रकृतयो बध्यन्ते तेषु तासां द्विस्थानिकपर्यन्त एव रसो बध्यते नैकस्थानिकः, मध्यमपरिणामत्वादेवेति न क्वापि शुभप्रकृतीनामेकस्थानिकरससम्भव इति ॥ ६४ ॥ कृता चतुर्विधस्यापि रसस्य प्रत्ययप्ररूपणा । सम्प्रति शुभाशुभरसस्यैव विशेषतः किञ्चित् स्वरूपमाह-
निवुच्छुरसो सहजो, दुतिचउभागक ढिइक्कभागंतो । इगठाणाई असुहो, असुहाण सुहो सुहाणं तु ||६५ ||
७७
"
इहैवमक्षरघटना - 'अशुभानाम्' अशुभप्रकृतीनां रसोऽशुभः, अशुभाध्यवसायनिष्पन्नत्वात् । क इव १ इत्याह – 'निम्बवत्' पिचुमन्दवद्, वत् शब्दस्य लुप्तस्येह प्रयोगो द्रष्टव्यः । तथा 'शुभानां' शुभप्रकृतीनां रसः शुभः शुभाध्यवसायनिष्पन्नत्वात् । क इव ? इत्याह- 'इक्षुवत्' इक्षुयष्टिवत् । तथा डमरुकमणिन्यायाद् निम्वेक्षुरसशब्द एवमप्यावर्त्यते--2 -- यथा निम्बरस एव इक्षुरस एव ‘सहजः' स्वभावस्थ एकस्थानिकरस उच्यते स एवैकस्थानिकरसो द्वि-त्रि- चतुर्भागक्वथितैकभागान्तो द्विस्थानिकादिर्भवति । कोऽर्थः ? द्वौ च त्रयश्च चत्वारश्च द्वि-त्रि- चत्वारः, ते च ते भागाश्च द्वित्रिचतुर्भागाः, द्वित्रिचतुर्भागाश्च ते पृथग् विभिन्न - विभिन्नेष्वाश्रयेषु क्वथिताश्च द्वित्रि- चतुर्भागक्वथितास्तेषाम् एकः - एकसङ्ख्यो भागोऽन्ते - अवसाने यस्य सहजरसस्य सद्वि-त्रिचतुर्भागक्वथितैकभागान्तः । स किम् ? इत्याह-एकस्थानिकादिः, आदिशब्दाद् द्विस्थानिकत्रिस्थानिक-चतुःस्थानिकरसपरिग्रह इत्यक्षरार्थः । भावार्थस्त्वयम् - इह यथा निम्ब घोषातकीप्रभृतीनां कटुकद्रव्याणां सहज :- अक्कथितः कटुको रस एकस्थानिक उच्यते, स एव भागद्वयप्रमाणः स्थाल्यां कथितोऽर्द्धावर्तितः कटुकतरो द्विस्थानिकः, स एव भागत्रयप्रमाणः स्थाल्यां क्वथितस्त्रिभागान्तः कटुकतमस्त्रिस्थानिकः, स एव भागचतुष्टयप्रमाणो विभिन्नस्थाने क्वथितचतुर्थ - भागान्तोऽतिकटुकतमश्चतुःस्थानिकः । तथा इक्षु-क्षीरादीनां सहजो मधुररस एकस्थानिक उच्यते, स एव सहजो भागद्वयप्रमाणः पृथग्भाजने क्वथितोऽर्थावर्तितो मधुरतरो द्विस्थानिकः, स एव भागत्रयप्रमाणः पृथक्स्थाल्यां कथितस्त्रिभागान्तो मधुरतमस्त्रिस्थानिकः, स एव भागचतुष्कप्रमाणो विभिन्नस्थाने क्वथितश्चतुर्थभागान्तोऽतिमधुरतमश्चतुःस्थानिकः । एवमशुभानां प्रकृतीनां ताशतादशकपायनिष्पाद्यः कटुकः कटुकतरः कटुक्तमोऽतिकटुक्तमथ, शुभप्रकृतीनां तु मधुरो