________________
देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः
[ गाथा
इदानीं शुभानां रसप्रत्ययविभागमाह - "सुहन्नह" ति शुभप्रकृतीनाम् 'अन्यथा' उक्तवैपरीत्येन हेतुविपर्ययाच्चतुः स्थानिकादिरसस्य बन्धो भवति । तत्र वालुका - जलरेखासदृशैः कषायैश्चतुःस्थानिको सन् भवति । महीरेखामदृशैः कपायैस्त्रिस्थानिको रसबन्धो भवति । गिरिरेखामदृशैः कपायैर्द्वि स्थानिको रसबन्धः शुभप्रकृतीनां भवति । शुभप्रकृतीनां त्वेकस्थानिको रस एव नास्तीति पूर्वमेवोक्तम् । अथ यासां प्रकृतीनामेक-द्वि-त्रि- चतुःस्थानिकभेदाच्चतुर्विधोऽपि रसबन्धः सम्भवति, यासां चैकस्थानिक स्त्रिविध एवेत्येतच्चिन्तयन्नाह - " विश्वदेस ( घाइ) आवरण | " इत्यादि । विघ्नानि दान-लाभ - भोग-उपभोग वीर्यान्तरायभेदादन्तरायाणि पञ्च, 'देशघात्यावरणाः' देशघात्यावारिकाः सप्त प्रकृतयः, तद्यथा - मतिज्ञान - श्रुतज्ञाना ऽवधिज्ञान- मनःपर्यायज्ञानावरणाश्चतस्रः, चक्षुर्दर्शना-चक्षुर्दर्शनाऽवधिदर्शनावरणास्तिस्र इत्येताः, “तुम” त्ति पु'वेद:, संज्वलनाश्चत्वारःक्रोध - मान-माया लोभा इत्येताः सप्तदशप्रकृतयः । किम् ? इत्याह-' इगदुतिचउठाणरस" त्ति स्थानशब्दस्य प्रत्येकं सम्बन्धाद् एकस्थान- द्विस्थान- त्रिस्थान - चतुःस्थाना रसा यासां ता एकद्वि-त्रि- चतुःस्थानरसाः, एताः सप्तदशापि प्रकृतय एक द्वि- त्रि- चतुःस्थानिकरूपेण चतुर्विधेनापि रसेन संयुक्ता बध्यन्त इति तात्पर्यम् । तत्रानिवृत्तिवादरे गुणस्थाने सङ्ख्ये येषु भागेषु गतेष्वासां सप्तदशानामपि प्रकृतीनामेकस्थानिको रसः प्राप्यते, शेषस्थानिकास्तु रसास्त्रयोऽप्यासां संसारस्थान् जीवानाश्रित्य प्राप्यन्त इति । शेषाः प्रकृतयस्तर्हि किंरूपा भवन्ति ? इत्याह - "सेम दुगमाई " इति । 'शेषाः' भणितसप्तदशप्रकृतिभ्य उद्धरिताः सर्वाः शुभा अशुभाश्च प्रकृतयो वध्यन्ते "दुगमाइ " त्ति "सूचनात् सूत्रम्" इति न्यायाद् द्विस्थानादिरसाः, आदिशब्दात् त्रिस्थानरसाचतुःस्थानरसाच, शेषाः प्रकृतयो द्विस्थानिक- त्रिस्थानिक चतुःस्थानिकरसयुक्ता भवन्ति, न त्वेकस्थानिकरसयुक्ता इति भावः । अयमत्राशयः - सप्तदशप्रकृतिष्वेवै कस्थानिको रसो बध्यते, न तु शेषासु, यतोऽशुभप्रकृतीनामेकस्थानिको रसो यदि लभ्यते तदाऽनिवृत्तिवादरसङ्ख्ये यभागेभ्यः परत एव, तत्र च सप्तदशप्रकृतीवर्जयित्वा शेषाणामशुभप्रकृतीनां बन्ध एव नास्ति, अतः शेषाणामशुभानामेकस्थानिको रसो न भवति । ये अपि केवलज्ञान - केवलदर्शनावरणलक्षणे द्वे अपि प्रकृती तत्र वध्येते, तयोरपि सर्वघातित्वाद् द्विस्थानिक एव रसो निर्वर्त्यते नैकस्थानिक इति । शुभानां तु सर्वासामप्येकस्थानिको रसो न भवति, यत इहासङ्ख्यं यलोकाकाशप्रदेशप्रमाणानि संक्लेश स्थानानि भवन्ति, विशुद्धिस्थानान्यपि तावन्त्येव, यथा यान्येव संक्लि - श्यमानः संक्लेशस्थानान्यारोहति तेष्वेव विशुध्यमानोऽवतरति, ततश्च यथा प्रासादमारोहतां यावन्ति सोपानस्थानानि अवतरतामपि तावन्त्येव तथाऽत्रापीति भावः, केवलं विशुद्धिस्थानानि विशेषाधिकानि । कथम् ? इति चेद् उच्यते - क्षपको येष्वव्यवसायस्थानकेषु क्षपकश्रेणिकामारोहति न तेषु पुनरपि निवर्तते, तस्य संक्लेशाभावात्, अतस्तानि विशुद्धिस्थानान्येव भवन्ति,