________________
६२-६४ ]
शतकनामा पञ्चमः कर्मग्रन्थः ।
ति अशुभाश्च शुभाश्चाशुभ-शुभास्तासामशुभशुभानाम्, अशुभप्रकृतीनां शुभप्रकृतीनां चेत्यर्थः । कथम् ? इत्याह- "संकेस विसोहिओ " त्ति संक्लेशश्च विशुद्धिश्च संक्लेश-विशुद्धी ताभ्यां संक्लेशविशुद्धितः, आद्यादेराकृतिगणत्वात् तस्प्रत्ययः यथासङ्ख्यमशुभप्रकृतीनां संक्लेशेन शुभप्रकृतीनां विशुद्धयत्यर्थः । इदमत्र हृदयम् - अशुभप्रकृतीनां द्वयशीतिसङ्ख्यानां संक्लेशेन - तीव्रकषायोदयेन ती:- उत्कटो रसो भवति, सर्वाशुभप्रकृतीनां तद्बन्धविधायिनां जन्तूनां मध्ये यो य उत्कृष्टसंक्लेशो जन्तुः स स तीव्ररसं बध्नातीत्यर्थः; शुभप्रकृतीनां तु विशुद्धया कपायविशुद्धया तीव्रोSनुभागो भवति, शुभप्रकृतिबन्धकानां मध्ये यो यो विशुध्यमानपरिणामः स स तासां तीव्र - मनुभागं वध्नातीत्यर्थः । उक्तस्तीवरसस्य बन्धप्रत्ययः । सम्प्रति स एव मन्दरसस्याभिधीयते - "विवज्जयओ मन्दरसो" त्ति 'विपर्ययेण' विपर्ययत उक्तवैपरीत्येन मन्दः - अनुत्कटरसो भवति । अयमर्थः - सर्व प्रकृतीनामशुभानां विशुद्धया मन्दो रसो जायते, शुभानां तु मन्दः संक्लेशेनेति । उक्तः संक्लेश-विशुद्धिवशादशुभ-शुभप्रकृतीनां तीव्रो मन्दश्वानुभागः, अयं त्वेक-द्वि-त्रिचतुःस्थानिकभेदाच्चतुर्धा भवति, अत एकस्थानिकादिग्सो यैः प्रत्ययैर्यासां प्रकृतीनां भवति तदाह - “गिरिमहिरय" इत्यादि । गिरिव पर्वतः मही च पृथिवी रजश्व - वालुका जलं च पानीयं गिरि- मही- रजः - जलानि तेषु रेखा:-राजयस्ताभिः सदृशाः - तुल्या गिरि मही- रजः- जलरेखासदृशास्ते च ते कषायाश्च सम्परायास्तैरसौ भवतीति प्रक्रमः ||३३||
I
कीदृग ? इत्याह
चठाणाई असुहा, सुहन्ना विग्घदे सआवरणा | पुमसंजलणिगदुतिच उठाणरसा संस दुगमाई ॥६४॥
७५
चतुःस्थान आदिर्यस्य रसस्य त्रिस्थानिक-द्विस्थानिक एकस्थानिकपरिग्रहः स चतुःस्थानादिः, कासाम् ? इत्याह- " - " असुह" ति इह पष्ठयर्थे प्रथमा ततः 'अशुभानाम्' अशुभप्रकृतीनाम् । इयमत्र भावना-इह रेखाशब्दस्य प्रत्येकं सम्बन्धाद् गिरिरेखाशब्देन प्रभूतकालव्यपदेशादतितीव्रत्वं पायाणां प्रतिपाद्यते, ततश्च गिरिरेखासदृशैः कपायैरनन्तानुबन्धिभिरित्यर्थः, सर्वासामशुभप्रकृतीनां चतुःस्थानिकरसबन्धो भवति । आतपशोपिततडागमहीरेखासदृशैः कपायैरप्रत्याख्यानावरणैर्मनाग्मन्दोदर्यैर शुभप्रकृतीनां त्रिस्थानिकरसबन्धो भवति । वालुकारेखासदृशैः कषायैः प्रत्याख्यानावरणैर शुभप्रकृतीनां द्विस्थानिकरसबन्धः । जलरेखासदृशैः कपायैरतिमन्दोदर्यैः संज्वलनाभिधैर्विघ्नपञ्चकादिवक्ष्यमाणसप्तदशाऽशुभप्रकृतीनामेवैक स्थानिकरसचन्धो भवति, न शेषाणां शुभप्रकृतीनामशुभप्रकृतीनामिति हि वक्ष्यामः । उक्तोऽशुभानां रसस्य बन्धप्रत्ययः,
९ केचिदादर्शषु ० सघाइ आवरणाः" इत्येवंरूपः पाठः ॥