________________
देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपैतः
[ गाथा तत्र चैकैककर्मस्कन्धे यः सर्वजघन्यरसः परमाणुः सोऽपि केवलिप्रज्ञया छिद्यमानः किल सर्वजीवेभ्यो अनन्तगुणान् रसभागान् प्रयच्छति । अन्यस्तु परमाणुस्तानविभागपलिच्छेदानेकाधिकान् प्रयच्छति, अपरस्तु तानपि द्वयधिकान , अन्यस्तु तानपि व्यधिकान् , अन्यस्तु तानपि चतुरधिकानित्यादिवृद्ध्या तावन्नेयं यावदन्त्य उत्कृष्टरसः परमाणमौलराशेरनन्तगुणानपि रसभागान् प्रयच्छति । अत्र च सर्वजघन्यरसा ये केचन परमाणवस्तेषु सर्वजीवानन्तगुणरसभागयुक्तेष्वप्यसत्कल्पनया शतं रसांशानां परिकल्प्यते, एतेषां च समुदायः समानजातीयत्वा. देका वर्गणेत्यभिधीयते, अन्येषां त्वेकोत्तरशतरसभागयुक्तानामरणूनां समुदायो द्वितीया वर्गणा, अपरेषां तु द्वय त्तरशतरमाशयुक्तानामरणूनां समुदायस्तृतीया वर्गणा, अन्येषां तु व्युत्तरशतरसभागयुक्तानामरणूनां समुदायश्चतुर्थी वर्गणा, एवमनया दिशा एककरसभागवृद्धानामरणूनां समुदायरूपा वर्गणाः सिद्धानामनन्तभागेऽभव्येभ्योऽनन्तगुणा वाच्याः । एतासां चैतावतीनां वगणानां ममुदायः स्पर्धकमित्यभिधीयते, स्पर्धन्त इवोत्तरोत्तररसवृद्धया परमाणुवर्गणा अत्रेति कृत्वा । एताश्चानन्तरोक्तानन्तकप्रमाणा अप्यसत्कल्पनया षट् स्थाप्यन्ते |१०५ | इदमेक स्पर्धकम् । इत ऊर्ध्वमेकोत्तरया निरन्तरवृद्धया वृद्धो रसोन लभ्यते, किं तर्हि ? सर्व-/१०/ जीवानन्तगुणैरेव रसभागद्धो लभ्यत इति तेनैव क्रमेण द्वितीयं रसस्पर्धकमार- १०२ भ्यते, ततस्तेनैव क्रमेण तृतीयमित्यादि यावदनन्तानि रसस्पर्धकानि उत्तिष्ठन्ते । ||
अयं चानुभागः शुभा-ऽशुभभेदेन द्विविधानामपि प्रकृतीनां तीव्र-मन्दरूपतया द्विविधी भवत्यतोऽशुभ-शुभप्रकृतीनां येन प्रत्ययेनासौ तीवो वध्यते येन च मन्दस्तन्निरूपणार्थमाह
तिव्वो असुहसुहाणं, संकेसविसोहिओ विवज्जयओ।
मंदरसो गिरिमहिरयजलरेहासरिसकसाएहिं ॥३॥ तत्र प्रथमं तावत् तीव्र मन्दस्वस्थ्यमुच्यते पश्चादक्षरार्थः । इह घोषातकी पिचुमन्दायशुभवनस्पतीनां सम्बन्धी सहजोऽर्धावर्तो द्विभागावतों भागत्रयावर्तश्च यथाक्रमं कटुकः कटुकतरः कटुकतमोऽतिशयक टुकतमश्च, तथेक्षु-क्षीरादिद्रव्याणां सम्बन्धी सहजोऽर्धावतो द्विभागावतो भागत्रयावर्तश्च यथासङ्ख्यं मधुरो मधुरतरो मधुरतमोऽतिमधुरतमश्च रसो जलाद्यसम्बन्धाद् यथा तीवो भवतिः तथेतेषामेव पिचुमन्दादीनां क्षीरादीनां च द्रव्याणां सम्बन्धी सहजो रसो जललवविन्दुअर्धचुलुक-चुलुक प्रमृति-अञ्जलि-करक कुम्भ-द्रोणादिसम्बन्धाद् यथा बहुभेदं मन्द-मन्दतरादित्वं प्रतिपद्यते तथाऽविर्तादयोऽपि रसा यथा जललवादिसम्बन्धाद् मन्द-मन्दतर-मन्दतमादित्वं प्रतिपद्यन्ते तथैवाशुभप्रकृतीनां शुभप्रकृतीनां च रसास्तादृशतादृशकपायवशात् तीव्रत्वं मन्दत्वं चानुविदधतीति । अझरार्थोऽधुना विवियते-तीव्रो रसो भवति । कासाम् ? इत्याह-"असुहसुहाणं"