SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ७३ ६०-६३ ) शतकनामा पञ्चमः कर्मग्रन्थः । औदारिकाङ्गोपाङ्गम् , ततो मनुजद्विकादीनां द्वन्द्वस्तेषु. एतासु प्रकृतिषु विषये त्रयस्त्रिंशदतराणि 'परमः' प्रकृष्टः सततबन्धो निरन्तरं बन्धकाल इति योगः । अत्रापि जिननामवर्जानां चतसृणां प्रकृतीनां जघन्यतः समयमेकं बन्धः सविपक्षत्वात् , उत्कृष्टतस्त्रयस्त्रिंशदतराणि, यतो बद्धजिननामकर्माऽनुत्तरसुरेषु स्थित एतावन्तं कालमेतदेव प्रस्तुतप्रकृतिपञ्चकं सततं बध्नातीति । ननु किमध्रुवबन्धिनीनां प्रकृतीनां सर्वासामपि जघन्यबन्धकालः समयमात्र एव ? किमुत कासाञ्चिदन्यथाऽपि ? अत आह-"अंतमुह लहू वि आउजिणे" त्ति 'लधुरपि जघन्यबन्धोऽपि हस्वबन्धकालोऽपि न केवलमसुखगतिप्रभृतीनामुत्कृष्टोऽन्तमुहर्तलक्षगो बन्धकाल इत्यपिशब्दार्थः, आयुःषु चतुषु जिननामकर्मणि चेत्यर्थः, "अंतमुहु"त्ति एकदेशे समुदायोपचाराद् अन्तमुहूतेलक्षणो न तु समयरूप इति । ____ अयमत्र भावार्थः-इह कश्चिजन्तुस्तीर्थकरनामबन्धक उपशमश्रेणिमारूढः, तत्र चानिवृत्तिबादर-सूक्ष्मसम्पराय-उपशान्तमोहलक्षणगुणस्थानकत्र ये वर्तमानोऽवन्धकः सम्पेदे, ततः श्रेणिं समाप्य प्रतिपतितः पुनरप्यन्तमुहृत यावत् तदेव बद्ध्वा तवं द्वितीयवारं श्रेण्यारोहणेऽबन्धको यदा भवति तदाऽसो कालो लभ्यते । न च वाच्यं कथमेकस्मिन्नेव भवे वारद्वयश्रेणिकरणम् ? यतः शास्त्र तस्याभिहितत्वात् । उक्तं च एगभवे दुक्खुत्तो, चरित्तमोहं उब समिजा ॥ (कर्मप्र० ३७६) इति । आयूपि चत्वार्यपि यावदन्तमुहूर्त तावद् जघन्यतोऽपि बध्यन्ते, ततस्तत्प्रति सुप्रतीत एव यथोक्तकाल इति ।। ६२॥ प्ररूपितः प्रसक्तानुप्रसक्तसहितः स्थितिवन्धः । इदानीमनुभागवन्धस्यावसरः-अनुभागो रसोऽनुभाव इति पर्यायाः । तत्रानुभागस्य किञ्चित् तावत् स्वरूपमुच्यते-इह गम्भीरापारसंसारसरित्पतिमध्यविपरिवर्ती रागादिमचियो जन्तुः पृथक सिद्धानामनन्तभागवर्तिभिरभव्येभ्योऽनन्तगुणैः परमाणुभिर्निष्पन्नान् कर्मम्कन्धान प्रतिसमयं गृह्णाति, तत्र च प्रतिपरमाणु कषायविशेषात् सर्वजीवानन्तगुणाननुभागस्याविभागपलिच्छेदान करोति । केवलिप्रज्ञया छिद्यमानो यः परमनिकृष्टोऽनुभागांऽशोऽतिसूक्ष्मतयाऽधं न ददाति सोऽविभागपलिच्छेद उच्यते । उक्तं च बुद्धीइ छिज्जमाणो, अणुभागंसो न देइ जो अद्धं ।। अविभागपलिच्छेओ, सो इह अणभागबंधम्मि ।। (शत० वृ० भा० गा०४५६) १ मुद्रितशतके तु-द्वयं श्रेणिक इत्येवंरूपः पाठः ।। २ एकम्मिन भवे द्विकृत्वः चारित्रमोहमुपशमयेत् ।। ३ कर्मप्रकृतौ तु-°समेइ । इत्येवंरूपः पाठः ॥ ४ बुद्धया छिद्यमानोऽनुभागांशो न ददाति योऽर्थम । अविभागपरिच्छे दोऽसाविहानुभागबन्थे ।। 10
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy