________________
देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः
[ गाथा वारद्वयेन पुनः षट्षष्टिसागरोपमाणि समनुभवति । तस्मादेतेषु तमःप्रभापृथिवीप्रभृतिस्थानेषु पर्यटन् जीवः क्वचिद् भवप्रत्ययात् क्वचिच्च सम्यक्त्वप्रत्ययादेतावन्तं कालमेताः सप्तापि प्रकृतीः सततं बध्नातीति। "वत्तीसं" ति द्वात्रिंशदधिकं जलधिशतमिति गम्यते, परमः सततबन्धकाल इति सम्बन्धः । क्व ? इत्याह-"सुहविहगइ" त्ति शुभविहायोगतिः 'पुम" त्ति पुवेदः 'सुभगत्रिकं' सुभग-सुस्वरा-ऽऽदेयलक्षणम् उच्चैर्गोत्रं 'चउरंस" त्ति 'चतुरस्र" समचतुरस्र प्रथमसंस्थानम् , तत एतेषां समाहारद्वन्द्वः, तत्र इहापि जघन्यतः समयमेकमासां सप्तानां प्रकृतीनां बन्धः सविपक्षत्वात् , उत्कृष्टतस्तु द्वात्रिंशं जलधिशतं सततबन्धकालो भवति । तथाहि-किल यदा कश्चिद् जन्तुः सर्वविरतिमनुपाल्य गृहीतसम्यक्त्वो वारद्वयं विजयादिगमनेन षट्पष्टिसागरोपमाणि सम्यक्त्वकालं प्रपूर्य मनुष्येप्वन्तमुहूर्त सम्यग्मिथ्यात्वमनुभूय तदन्तरितं द्वितीयं षट्पष्टिप्रमाणं सम्यग्दशनकालं वारत्रयमच्युतदेवलोकगमनेन परिपूरयति तदा सम्यग्दृष्टिजेन्तुरेता एव वधनाति, न पुनरेतत्प्रतिपक्षाः, तासां मिथ्यादृष्टि-सास्वादनगुणस्थानकयोर्वन्धव्यवच्छेदादिति ॥३०॥
असुग्वगहजाइआगिइसंघयणाहारनरयजोयदुर्ग ।
थिरसुभजसथावरदसनपुइत्थोदुजुयलमसायं . ॥६१॥ गुशब्दः प्रशंसायाम् , न सुः असुः-अप्रशस्त इत्यर्थः । ततोऽसुशब्दः प्रत्येकं सम्बध्यते. ततश्चासुखगतिः-अप्रशस्तविहायोगतिः, असुजातयः,-एक--द्वि-त्रि-चतुरिन्द्रियजातिलक्षणाश्चतस्रः, असुमंहननानि--ऋषभनाराचादीनि पञ्च, अस्वाकृतयः--आकाराः संस्थानानि न्यग्रोधपरिमण्डलादयः पञ्च, द्विकशब्दम्य प्रत्येकं सम्बन्धाद् आहारकद्विकम्--आहारकशरीरा-ऽऽहारकाङ्गोपाङ्गलक्षणं नरकद्विकं--नरकगति-नरकानुपूर्वीलक्षणं "जोयदुर्ग" ति उद्योतद्विकम् -उद्योता-ऽऽतपलक्षणम् "उजोयायवपरघा" ( गा० ३) इति संज्ञागाथायां पठनात् , स्थिरनाम, शुभनाम, ''जस'त्ति यशःकीर्तिनाम, स्थावरदशकं प्रतीतमेव "नपु" ति नपुंसकवेदः, स्त्रीवेदः, योयु गलयोः समाहारो द्वियुगलं--हास्य-रति-अरति-शोकलक्षणम् 'असातम्' असातवेदनीयमिति ॥६१॥
. समयादंतमुहुत्तं, मणुदुगजिणवइरउरलवगेसु ।
तित्तीसयरा परमो, अंतमुहु लहू वि आउजिणे ॥३२॥ एतासां पूर्वोक्तानामसुखगतिप्रभृत्येकचत्वारिंशत्प्रकृतीनां किम् ? इत्याह--'समयात् सूक्ष्मकालांश दारभ्य अन्तर्मुहूर्तं यावदुत्कृष्टतोऽपि सतलवन्धो न परतोऽपि । किमुक्तं भवति :समयप्रमाणो जघन्यो बन्धकाल उत्कृष्टश्चान्तमु हतप्रमाणः, यतः समयादन्तमु हृताद् वा उत्तरकालमासामवन्धित्वेनावश्यं परावृत्तेः सद्भावात सङ्गच्छत एव यथोक्तकाल इति । तथा “मगुदुर्ग ति मनुजद्विकं--मनुजगति-मनुजानुपूर्वीरूपं, जिननाम “वहर" त्ति वत्र ऋषभनाराचसंहननम्