________________
५८-६० ]
शतकनामा पञ्चमः कर्मग्रन्थः। मुहूर्तमेव कालं यावत् परमः सततबन्धकालः, जघन्योऽपि चैतावानेवेति वक्ष्याम इति ।
तथैकदेशे समुदायोपचाराद् 'औदारिके' औदारिकशरीरविषयेऽसङ्ख्याः-सङ्ख्यातिक्रान्ताः "परट्ट"त्ति परावर्ताः-पुद्गलपरावर्ता वक्ष्यमाणस्वरूपाः परमः सततबन्धकाल इति । इहापि जघन्यतः समयेकं सततबन्धः सविपक्षत्वात् , उत्कृष्टतस्त्वसङ्घय यपुद्गलपरावर्ताः। कथम् ? यतो व्यावहारिकसत्त्वा अपि स्थावरकायमुपगताः कायस्थित्या इयन्तं कालं तिष्ठन्ति, न च तत्र वैक्रिया-ऽऽहारकयोस्तद्विपक्षयोर्बन्धोऽस्तीति तात्पर्यम् । तथा "सायठिई पुव्वकोडूण" त्ति सातस्य-सातवेदनीयस्य स्थितिः-स्थितिबन्धः सततबन्धकालः परमः पूर्वकोटिरूना-न्यूना भवति । इहापि जघन्यतः सातस्य समयमेकं बन्धः सविपक्षत्वात् , उत्कृष्टतस्तु देशोना पूर्वकोटिः सततबन्धः, यतो यः कश्चिन्मानवः पूर्वकोटयायुरष्टवार्षिकः सर्वविरतिमादाय नवमवर्षे केवलज्ञानमासादयेत् सोऽष्टाभिर्वर्षेरूना पूर्वकोटिं सातवेदनीयं सततं बध्नाति, केवलिनः सातस्यैव बन्धात् । उक्तं च'उवसंतखीणमोहा, केवलिणो एगविहबन्धा ।। (पञ्चाश० १६ गा० ४१) इति ।।५६ ।।
जलहिसयं पणसोयं, पर घुस्सासे पणिदि तसचउगे।
बत्तीसं सुहविहगइपुमसुभगतिगुच्चचउरंसे ॥६॥ पराघातं चोच्छ्वासं च पराघातोच्छ्वासं तस्मिन् पराघातोच्छ्वासे, "पणिदि" त्ति सूचनात् सूत्रम् , इति कृत्वा पञ्चेन्द्रियजातो, त्रसेनोपलक्षितं चतुष्कं त्रसचतुष्कं तस्मिन् त्रसचतुष्के-त्रसबादर-पर्याप्तप्रत्येक-लक्षणे प्रभूतकालनिस्तरणीयत्वाद् जलधय इव जलधयः-सागरोपमाणि, तेषां शतं जलधिशतं "पणसीयं" ति पश्चाशीत्यधिकं परमः सततबन्धकालो भवति । इह च सचतु:पल्यमित्यनिर्देशेऽपि सचतुःपल्यमिति व्याख्यानं कार्यम् , यतो यावानेतद्विपक्षस्याबन्धकालस्तावा नेवासां बन्धकाल इति । पञ्चसङ्ग्रहादौ चोपलक्षणादिना केनचित्कारणेन यन्त्रोक्तं तदभिप्रायं न विद्म इति । तथा जघन्यत एता अपि समयमेकं वध्यन्ते, सविपक्षत्वादध्रुवबन्धित्वाच्च । उत्कृष्टतस्तु सचतुःपल्यं पञ्चाशीत्यधिकं जलधिशतं बन्धकालः । कथम् ? षष्ठपृथिव्यामुत्कृष्टस्थितिको द्वाविंशतिसागरोपमाण्यनुभवन्नासां विपक्षबन्धासम्भवादेता एव प्रस्तुतसप्तप्रकृतीवेद्धवान् , ततः पर्यन्तान्तमुहूर्ते सम्यक्त्वमासाद्य मनुष्यजन्म सम्प्राप्य देशविरतिरत्नं लब्ध्वा चतुःपल्योपमस्थितिकेषु देवेषु सुपर्वत्वमनुभूय अप्रतिपतितसम्यक्त्व एव मनुष्येषु समुत्पद्य सम्पूर्णसंयमं च परिपाल्य नवमग्रैवेयकविमाने एकत्रिंशत्सागरोपमस्थितिको महर्द्धिरमरो भूत्वा उत्पादोत्तरकालं मिथ्यात्वोदयवान् भवति, च्यवनकाले च सम्यक्त्वं प्रतिपद्य षट्षष्टिसागरोपमाण्यच्युतदेवलोके वारत्रयेणानुभवति, पुनरन्तर्मुहूर्त सम्यग्मिथ्यात्वमनुभूय भूयोऽपि सम्यग्दर्शनमवाप्य विजयादिषु
१ उपशान्तक्षीणमोहाः केवलिन एकविधबन्धाः ।।