________________
[गाथा
देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः कवचनम् । कोऽर्थः १ यदा नवमग्रैवेयके एकत्रिंशत्सागरोपमरूपां स्थितिमनुभूय ततश्च्युतः पुनः मनुष्येषत्पद्य इत्यादिप्रागुक्तन्यायेन पुनर्विजयादिगमनेन षट्षष्टिद्वयं पूरयति तदा त्रिपष्टयधिकमुदधिशतं भवतीति । तथा तमःप्रभायां द्वाविंशतिसागरोपमाणि स्थितिमनुभूय ततो नवमवेयके एकत्रिंशत्सागरोपमाणि तदनु विजयादिषु षट्षष्टिद्वयमिति मिलितं पश्चाशीत्यधिकमुदधिशतमिति । सर्वत्र चान्तरालभाविनरभवाधिकत्वं स्वत एव वाच्यमिति । एवं यासां प्रकृतीनां येषु जन्तुषु सर्वथैव बन्धो न भवति तास्तद्वारेण प्रदर्शिताः । सम्प्रति त्रिसप्ततिसङ्ख्यानामप्यध्रुवबन्धिनीनां जघन्यमुत्कृष्ट च सततबन्धकालप्रमाणं प्रतिपादयन्नाह-"सययबन्धो" इत्यादि । द्विकशब्दस्य प्रत्येकं सम्बन्धाद् सुरद्विके-सुग्गति-सुरानुपूर्वीलक्षणे वैक्रियद्विके वैक्रियशरीर-वैक्रियाङ्गोपाङ्गस्वरूपे ‘पल्यत्रिकं' पल्योपमत्रयं सततं बन्धः सततबन्धः “नाम नाम्नैकार्ये समासो बहुलम्" ( सिद्ध० ३-१-१८ ) इति समासः, यथा विस्पष्ट पटुः विस्पष्टपटुरित्यादी इत्यक्षरार्थः । भावार्थस्त्वयम्-सुरद्विक वैक्रियद्विकलक्षणप्रकृतिचतुष्टयस्य पल्योपमत्रिकं सततबन्धकालः "तित्तीसयरा परमो” ( गा० ६२ ) इति पदात् परमशब्दस्येहाकर्षणात् 'परमः' उत्कृष्टो भवति, यतो युगलधार्मिकेषु वर्तमानो जन्मत आरभ्य देवप्रायोग्यमिदं प्रकृतिचतुष्टयं पल्योपमत्रयं यावत् सततमेव-निरन्तरमेव बध्नातीति भावः, जघन्यतस्तु समयः परावर्तमानत्वादासामपीति ॥ ५८ ॥
समयादसंखकालं, तिरिदुगनीएसु आउ अंतमुहू ।
उरलि असंखपरहा, सायठिई पुव्वकोडूणा ॥५९।।
समयः-अत्यन्तसूक्ष्मः कालांशः, स च समयप्रसिद्धात् पट्टशाटिकापाटनदृष्टान्ताद् उत्पलपत्रशतवेधोदाहरणाद्वाऽवसेयः, तस्मात् समयादारभ्य समयमादौ कृत्वा एकोत्तरसमयवृद्धया तावत्सततं बन्धकालो नेयो यावदसङ्खये यकाल इति । तत्रासङ्ख्यः-सङ्ख्यातिक्रान्तः समयपरिभाषितः स चासौ कालचासङ्ख्यकालः तम् , सङ्ख्य यलोकाकाशप्रदेशप्रमाणसमयराशिरूपं यावदित्यर्थः । इह च समयशब्देन जघन्यो बन्धकाल उक्तः, स च सर्वत्र मन्तव्यः, क? इत्याह-तियग्द्विके-तिर्यग्गति-तिर्यगानुपूर्वीरूपे नीचैर्गोत्रे च द्वन्द्वे च तिग्द्विकनीचैर्गोत्रयोः । अयमाशयः- तिर्यग्गति-तिर्यगानुपूर्वी-नीचेर्गोत्रलक्षणप्रकृतित्रयमिदं जघन्यतः समयमेकं वध्यते, द्वितीयसमये परावृत्या तद्विपक्षस्य बन्धसम्भवात् । यदा तु तेजः-वायुषु जन्तुरुपयते तदा भवस्वभावादेवातिसंक्लिष्टे नीचेोत्र-तिग्द्विके एव बध्नाति, न तद्विपक्षमुच्चैगोत्रं मनुजद्विकं वा, अतस्तेजः-वायूनां कायस्थितिरूपमसङ्खये यकालं यावदासां तिसृणामपि प्रकृतीनां परमः सततबन्धकालः प्राप्यत इति । “आउ अन्तमुहु” त्ति आयुःषु चतुर्बपि अन्त