________________
५६-५८]
शतकनामा पञ्चमः कर्मग्रन्थः। सम्यग्दर्शनकालं वारत्रयमच्युतगमनेन पूरयति । तदेवमेतासां पञ्चविंशतिप्रकृतीनां सम्यक्त्वादियुक्तस्य विजयादिगमनक्रमेण द्वात्रिंशं शतं ज्ञेयम् । तदुक्तम्
'पणवीसाइ अबन्धो, उक्कोसो होइ सम्मगुणजुत्ते ।
बत्तीस सयमयराण हुति अहिया मणुस्सभवा ॥ एवमेकचत्वारिंशतः प्रकृतीनां विचित्रोऽअन्धकालः प्रतिपादितः सम्प्रति स एव यथाभूतो येषु जीवेषु भवतीत्येतदाह-"पणिदिसु" इत्यादि । 'पञ्चेन्द्रियेपु' प्रदर्शितेष्वेव नर-नारकादिषु 'अबन्धस्थितिः' अबन्धनाद्धा ‘परमा' प्रकृष्टोत्कृष्टा, न तु सर्वजीवेषु । उक्तं च
'एयासिं पयडीणं, अबन्धकालो उ होइ सन्निस्स ।
उक्कोसो विन्नेओ, न उ सव्यजियाण एस विही ॥ इति ।।५७|| साम्प्रतं पूर्वोदितद्वात्रिंशदधिक-त्रिपष्टयधिक-पञ्चाशित्यधिकाऽतरशतसङ्ख्यापूरणोपायमाह
विजयाइसु गेविज्जे, तमाइ दहिसय दुतीस तेसह । पणसीइ सययबंधो, पल्लतिगं सुरविउव्विदुगे ॥५८।।
"दहिसय" ति उकारलोपाद् उदधिशतं-सागरोपमशतम् , ततः प्रत्येकमुदधिशतशब्दस्य सम्बन्धः कायः । ततश्चायमर्थः-विजयादिपु गतस्य जीवस्येति शेषः, द्वात्रिंशमुदधिशतं भवति । तथा ग्रेवेयके विजयादिषु च गतस्य जीवस्य त्रिपष्टयधिकसुदधिशतं भवति । तथा "तमाइ" त्ति तमःप्रभायां षष्ठपृथिव्यां ग्रैवेयके विजयादिषु च गतस्य जीवस्य पञ्चाशीन्यधिकमुदधिशतं भवतीत्यक्षरार्थः । भावार्थः पुनरयम्-विजय-बैजयन्त -जयन्ता--ऽपराजितसंज्ञितेषु चतुष्वपि विमानेषु मध्येऽन्यतरस्मिन् कस्मिंश्चिद् विमाने वारद्वयगमनेन एका पट्पष्टिः, ततः सम्यग्मिथ्यात्वान्तमुहूर्तेनान्तरिता पुनरच्युतदेवलोके वारत्रयगमनेनान्या षट्पष्टिः, यदाह भाष्यसुधाम्भोधिः--
दो बारे विजयाइसु, गयस्स तिन्नऽच्चुए अहव ताई ।
अइरेगं नरभवियं, नाणाजीवाण 'सबद्धा ।। (विशेषा० भा० मा० ४३६) एवं च पट्पष्टिद्वयमीलने द्वात्रिंशं शतं सागरोप पाणां विजयादिषु पर्यटतो जन्तोः सम्पद्यत इति । तथा लोकपुरुषस्य ग्रीवायां भवानि विमानानि येयकाणि तेषु गे वेय के पु, जातावे
१ पंचविंशत्या अबन्ध उत्कृष्टो भवति सम्यक्त्वगुणयुक्ते । द्वात्रिंशतमतराणां भवन्त्यधिका मनुष्यभवाः । एतासां प्रकृतीनामबन्धकालस्तु भवति संजिनः । उत्कष्टी विज्ञेयो न तु सर्वजीवानामेष विधिः।। ३ वी बारी विजयादिपु गतस्य त्रयोऽच्युतेऽथवा तानि ! अतिरिक्तं नरभविक नानाजीवानां सर्वाद्धा । ४ भाप्ये तु-"सम्बद्धं"।