________________
देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः
[ गाथा
प्रत्येकं सम्बन्धाद् मनुजद्विकं मनुजगति मनुजानुपूर्वी स्वरूपं खगतिद्विकं - प्रशस्त विहायोगतिअशुभ विहायोग तिरूपं, पञ्चेन्द्रियजातिः उच्छ्वासनाम पराघातनाम उच्चम् - उच्चैगोत्रं संहननानि वज्रपेभनाराच ऋषभनाराच नाराचा-ऽ -र्धनाराच कीलिका सेवार्तलक्षणानि पट्, आकृतयःआकाराः संस्थानानि समचतुरस्र न्यग्रोधपरिमण्डल- सादि- वामन कुब्ज- हुण्डलक्षणानि षट्, "नपु" त्ति नपुंसक वेदः " थी" ति स्त्रीवेदः, त्रिकशब्दस्य प्रत्येकं सम्बन्धात् सुभगत्रिकेसुभग-सुस्वरा-ऽऽदेयलक्षणम्, 'इतरत्रिक' दुर्भगत्रिक - दुर्भग- दुःस्वरा - ऽनादेयलक्षणम् इत्येतासां चत्वारिंशत्प्रकृतीनां "मिच्छ" त्ति मिथ्यादृष्टयश्चतुर्गतिका जघन्यानुभागं कुर्वन्ति ।
"
इह सामान्योक्तावपि "व्याख्यानतो विशेषप्रतिपत्तिः" इति न्यायात् पञ्चेन्द्रियजातितैजसः कार्मण- प्रशस्तपर्ण- गन्ध-रस-स्पर्शा ऽगुरुलघु-परावात - उच्छ्वास त्रस बादर-पर्याप्त-प्रत्येकनिर्माणलक्षणानां पञ्चदशप्रकृतीनां चतुर्गतिका अपि जीवा मिथ्यादृष्टयः सर्वोत्कृष्टसंक्लेशा जबन्यानुभागं कुर्वन्ति । एता हि शुभ प्रकृतित्वात् सर्वोत्कृष्ट संक्लेशैर्जघन्यरसाः क्रियन्ते । तत्र च तिर्यङ् - मनुष्याः सर्वोत्कृष्टसंक्लेशे वर्तमाना नरकगतिसहचरिता एता बध्नन्तो जघन्यरसाः कुर्वन्ति । नारका देवाश्वेशानादुपरिवर्तिनः सनत्कुमारादयः सर्वसंक्लिष्टाः पञ्चेन्द्रिय तिर्यक्प्रायोग्या एता बघ्नन्तो जघन्यरसाः कुर्वन्ति, ईशानान्तास्तु देवाः सर्व संक्लिष्टाः पञ्चेन्द्रियजाति-त्र सवर्जाः शेषास्त्रयोदश प्रकृती केन्द्रियप्रायोग्या बध्नन्तो जघन्यरसा विदधतीति । पञ्चेन्द्रियजाति- त्रसनाम्नी तु विशुद्धा अमी बध्नन्तीति जघन्यरसो न लभ्यत इति तद्वर्जनम् । स्त्रीवेदन सकवेदलक्षणप्रकृतिद्वयस्य चतुर्गतिका अपि मिथ्यादृष्टयो जीवा अशुभत्वाद् एतत्प्रकृतिद्विकस्य तत्प्रायोग्यविशुद्धा जघन्यानुभागं रचयन्ति । अतिविशुद्धः पुरुषवेदबन्धकः स्यादिति तत्प्रायोग्य विशुद्ध ग्रहणमिति ।
८८
मनुष्यद्विक संहननषट्क-संस्थानपट्क- विहायोगतिद्विक- सुभग-सुस्वरा-ऽऽदेय- दुर्भग-दु:स्वरा-नादेय - उच्चैर्गोत्र लक्षणानां त्रयोविंशतिप्रकृतीनां चतुर्गतिका अपि मिथ्यादृष्टयो मध्यमपरिणामा जघन्यानुभागं कुर्वन्तिः सम्यग्दृष्टीनां तासां परावृत्तिर्नास्ति, तथाहि – तिर्यड्मनुष्याः सम्यग्दृष्टो देवद्विकमेव बध्नन्ति, न मनुष्यादिद्विकानि, संस्थानेषु तु समचतुरस्रमेव रचयन्ति, संहननं तु किश्चिदपि न बध्नन्ति, तथा शुभविहायोगति सुभग-सुस्वराऽऽदेय उच्चैगोत्राण्येव वनन्ति न प्रतिपक्षाः । देवा नारका अपि सस्यग्दृष्टयो मनुष्यद्विकमेव बध्नन्ति, न तिर्यद्विकादिकम्, संस्थानेषु तु समचतुरस्रसंस्थानमेव, संहननेषु पुनर्वज्रमनाराच संहननमेव, विहायोगत्यादिका अपि शुभा एव त्रघ्नन्ति न प्रतिपक्षा इति, तेषां परावृच्यभावाद् मिथ्यादृष्टिग्रहणम् । तत्र मनुष्यगतिद्विकस्य पञ्चदश सागरोपमकोटीकोटय उत्कृष्टा स्थितिः, प्रशस्त विहायोगति सुभग-सुस्वराऽऽदेय-उच्चैत्र-जमनाराचसंहनन- समचतुरखसंस्थानानां तु दशसा