________________
५२-५३]
शतकनामा पञ्चमः कर्मग्रन्थः। अस्या अक्षरगमनिका-परिणमनं परिणामः, अन्तर्भूतणिगर्थाद् घञ्प्रत्ययः, परिणामापादनमित्यर्थः, आलम्ब्यत इत्यालम्बनं भावेऽनद्प्रत्ययः, गृहीतिर्ग्रहणम् , तेषां साधनं-साध्यतेऽनेनेति साधनं-योगसंशं वीर्यं “करणाधारे" (सिद्ध० ५-३-१२६) इत्यनट्प्रत्ययः । तथाहि-'तेन' वीर्यविशेषेण योगसंज्ञितेनौदारिकादिशरीरप्रायोग्यान पुद्गलान् प्रथमतो 'गृह्णाति, गृहीत्वा च प्राणा-ऽपानादिरूपतया परिणमयति, परिणमय्य च तन्निसर्गहेतुसामथ्र्यविशेषसिद्धये तानेव पुद्गलानवलम्बते. यथा मन्दशक्तिः कश्चिन्नगरे परिभ्रमणाय यष्टिमवलम्बते, ततस्तदवष्टम्भतो जातसामर्थ्यविशेषः सन् तान् प्राणा-ऽपानादिपुगलान् विसृजतीति परिणामा-ऽऽलम्बन-ग्रहणसाधनं वीर्यम् । तेन च वीर्येण योगसंज्ञकेन मनोवाक्कायावष्टम्भतो जायमानेन 'लद्धनामतिगं"ति लब्धं नामत्रिक मनोयोगो वाग्योगः काययोग इति । तत्र मनसा करणभूतेन योगो मनोयोगः, वाचा योगो वाग्योगः, कायेन योगः काययोगः । स्यादेतत्-सर्वेषु जीवप्रदेशेषु तुल्यक्षायोपशमिक्यादिलब्धिभावेऽपि किमिति क्वचित् स्तोकं क्वचित् प्रभूतं क्वचित् स्तोकतरमित्येवंवैषम्येण वीर्यमुपलभ्यते ? इत्यत आह-कज्ज" इत्यादि । यदर्थ चेष्टते तत् कार्यं तस्याभ्याशः-अभ्यशनमभ्याशः "अशूट व्याप्तौ" इत्यस्याभिपूर्वस्य घान्तस्य प्रयोगः, कार्याभ्याशः--कार्यास्यासन्नता निकटीभवनमित्यर्थः, तथा जीवप्रदेशानामन्योऽन्यं--परस्परं प्रवेशः--शृङ्खलावयवानामिव परस्परं सम्बन्धविशेषः, ताभ्यां कृत्वा विषमीकृताः--सुप्रभूता-ऽल्पा-ऽल्पतरसद्भावतो विसंस्थुलीकृताः प्रदेशा येन वीर्येण तत् कार्याभ्याशा-ऽन्योन्यप्रवेशविषमीकृतप्रदेशम् । तथाहि--येषामात्मप्रदेशानां हस्तादिगतानामुत्पाट्यमानघटादिलक्षणकार्यनैकट्य तेषां प्रभूततरा चेष्टा, दूरस्थानामंसादिगतानां स्वल्पा, दूरतरस्थानां तु पादादिगतानां स्वल्पतरा, अनुभवसिद्धं चैतत् , अपि च लोप्टादिना निर्घाते सति यद्यपि सर्वप्रदेशेषु युगपद् वेदनोपजायते तथापि येषामात्मप्रदेशानामभिघातकलोष्टादिद्रव्यनैकटय तेषां तीव्रतरा वेदना, शेषाणां तु मन्दा मदन्तरा; तथेहापि जीदप्रदेशेषु परिस्पन्दात्मकं वीर्यमुपजायमानं कार्यद्रव्याभ्याशवशतः केचित् प्रभूतमन्येषु मन्दमपरेषु मन्दतमं भवति । एतच्चैवं जीवप्रदेशानां परस्परं सम्बन्ध विशेष भवति नान्यथा, यथा शृङ्खलावयवानाम् । तथाहि-तेषां शृङ्खलावयवानां परस्परं सम्बन्धविशेषे सति एकस्मिन्नवयवे परिस्मन्दमानेऽपरे- 7 ऽप्यवयवाः परिस्पन्दन्ते, केवलं केचित् स्तोकमपरे तु स्तोकतरमिति, सम्बन्धविशेषाभावे त्वेकस्मिंश्चलति नापरस्यावश्यम्भावि चलनम् , यथा गो-पुरुषयोः । तस्मात् कार्यद्रव्याभ्याशवशतो जीवप्रदेशानां परस्परं सम्बन्धविशेषतश्च वीर्यं जीवप्रदेशेषु केचित् प्रभूतमन्येषु स्तोकमपरेषु तु स्तोकतरमित्येवं वैषम्येणोपजायमानं न विरुध्यत इत्यलं विस्तरेण ॥ १ कर्मप्रकृतिवृत्तौ तु-०ह्णाति गृहीत्वा चौदारिकादिरूपतया परिणमयति, तथा प्राणा-ऽपान-भाषा मनोयोग्यान् पुद्गलान् प्रथमतो गृह्णाति गृ० इत्येवंरूपः पाठः।।२ 'कं । तद्यथा-मनो' इति कर्मप्रकृतिवृत्तौ ।। ३कमप्रकृतिवृत्तौ तु-शाःजीवप्रदेशा येन जीववी० इत्येवंरूपः पाठः।। १०न्धविशेपे सति भव इति कमप्रकृतिवृत्तौ ॥