________________
देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः
[ गाथा
प्रकृतं प्रस्तुमः- तत्र सूक्ष्मनिगोदस्य - सूक्ष्मसाधारणस्य लब्ध्यपर्याप्तकस्य सर्वजघन्यवीर्यस्येति च सामर्थ्याद् दृश्यम्, तस्यैव सर्वजघन्ययोगस्य प्राप्यमाणत्वाद्, आदिक्षणः - प्रथमोत्पत्तिसमयः सूक्ष्मनिगोदादिक्षणस्तत्र, सप्तम्येकवचनलोपश्च प्राकृतत्वात् । किम् ? इत्याह- "अप्पजोग” त्ति अल्पः - सर्वस्तोको योगः - वीर्यं व्यापार इति यावत् । ततो बादरस्य " विगल" त्ति विकलत्रिकस्य “अमण” त्ति असंज्ञिनः “मण" त्ति संज्ञिनः " अपज्ज" त्ति प्रत्येकं सम्बन्धात् सूक्ष्मादीनां सप्तानामप्यपर्याप्तानां "लहु" त्ति जघन्यो योगोऽसङ्ख्ये यगुणो वाच्यः, आदिक्षण इत्यपि सर्वत्र वाच्यम्, ततः प्रथमद्विकस्य - अपर्याप्तसूक्ष्मनिगोद बादरलक्षणस्य 'गुरुः' उत्कृष्टो योगोऽस
ये गुणो वाच्यः । ततः प्रथमद्विकस्य "पज हस्सियरो असंखगुणो" त्ति पर्याप्तस्य ह्रस्वःजघन्य इतरः- उत्कृष्टयोगो यथाक्रममसङ्ख्ये यगुणो वाच्य इति गाथाक्षरार्थः । भावार्थस्त्वयम् - सूक्ष्मनिंगोदस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगः सर्वस्तोकः १ ततो बादरैकेन्द्रियस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगोऽसङ्घये यगुणः २ ततो द्वीन्द्रियस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगोऽसङ्घये यगुणः ३ ततस्त्रीन्द्रि यस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगऽसङ्ख्यं यगुणः ४ ततश्चतुरिन्द्रियस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगोऽसङ्घये यगुणः ५ ततोऽसंज्ञिपञ्चेन्द्रियस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगोऽसङ्ख्ये यगुणः ६ ततः संज्ञिपञ्चेन्द्रियस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगोऽसङ्ख्यं यगुणः ७ ततः सूक्ष्मनिगोदस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽसङ्ख्ये यगुणः ८ ततो बादरै केन्द्रियस्य लब्ध्यपर्यातकस्योत्कृष्टो योगोऽसङ्ख्ये यगुणः । ततः सूक्ष्मनिगोदस्य पर्याप्तकस्य जघन्यो योगोऽसङ्ख्यं यगुणः १० ततो बादरै केन्द्रियस्य पर्याप्तकस्य जघन्यो योगोऽसङ्ख्ये यगुणः ११ ततः सूक्ष्मनिगोदस्य पर्याप्तस्योत्कृष्टो योगोऽसङ्ख्ये यगुणः १२ ततो बादरै केन्द्रियस्य पर्याप्तकस्योत्कृष्टो योगोऽसये गुणः १३ || ५३||
असमत्तत सुक्कोसो, पज्ज जहन्नियरु एवं ठिठाणा |
अपजेयर संखगुणा, परमपजचिए असंखगुणा ॥ ५४ ॥ असमाप्ताः - अपर्याप्तस्ते च ते बसाव - द्वीन्द्रियादयोऽसमाप्तत्रसाः -- अपर्याप्तद्वि-त्रि- चतुरिन्द्रिया-ऽसंज्ञि-संज्ञिपञ्चेन्द्रियास्तेषामुत्कृष्टोऽसमाप्तत्र सोत्कृष्टोऽसङ्खये यगुणो वाच्यः । अयमर्थःपर्याप्तवादर्केन्द्रियोत्कृष्टयोगाद् द्वीन्द्रियस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽसङ्ख्यं यगुणः १४ ततस्त्रीन्द्रियस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽसङ्ख्यं यगुणः १५ ततचतुरिन्द्रियस्य लब्ध्यपर्यातकस्योत्कृष्टो योगोऽङ्खये यगुणः १६ ततोऽसंज्ञिपञ्चेन्द्रियस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽसङ्घये यगुणः । १७ ततः संज्ञिपञ्चेन्द्रियस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽसङ्घयं यगुणः
६२