________________
६०
देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः
[ गाथा
ननु ज्येष्ठा स्थितिः संक्लेशेन बध्यते, जघन्या तु किंप्रत्यया ? इत्याह - " इयरा विसोहिंओ पुण" त्ति 'इतरा' जघन्या पुनः 'विशोधितः विशुद्धया कपायापचयरूपया बध्यते । इदमुक्तं भवति - इह ये ये विवक्षितमूलोत्तरप्रकृतीनां बन्धकास्तेषां मध्ये यो यः सर्वोत्कृष्टविशुद्धियुक्तः स तत्तद्विवक्षितकर्मस्थितिं जघन्यां बध्नातीति भावः । किं सर्वप्रकृतीनामयमेव न्यायः १ यदुतोत्कृष्टा स्थितिः संक्लेशेनैव बध्यते अशुभा च भवति, जघन्या पुनर्विशुद्ध व १, न, इत्याह- " मुत्तु' नर अमरतिरियाउं" ति आयुः शब्दस्य प्रत्येकं सम्बन्धात् 'मुक्त्वा ' त्यक्त्वा नरायुरमरायुस्तिर्यगायुः । अयमर्थः:- नरा-मर तिर्यगायुषां स्थिति मुक्त्वा शेषस्थितीनामेवाऽशुभत्वं द्रष्टव्यम् एतत्स्थितिः पुनः शुभैव भवतीत्यर्थः, विशुद्विलक्षणस्य तत्कारणस्य शुभत्वात् । मनुष्य- तिर्यगायुषोर्हि वृद्धिस्त्रिपल्योपमावसाना, देवायुषस्तु वृद्धिस्त्रयस्त्रिंशत्सागरोपमावसानाऽपि शुभा, विशुद्धिलक्षणस्य तत्कारणस्य शुभत्वात्, विशुद्धितारतम्यादेव च भवति, अतो मनुष्यतिर्यग - देवायुःस्थितिः शुभा, शुभकारणप्रभवत्वात्, शुभद्रव्यनिष्पन्नघृतपूर्णादिद्रव्यवदिति । अथवा प्रस्तुतायुष्कत्रयस्थितिवृद्धौ रसोऽपि वर्धते स च शुभः, सुखजनकत्वाद् इत्यतोऽपि प्रस्तुतायुष्कस्थितेः शुभत्वम्, तद्वृद्धेः शुभरसवृद्धिहेतुत्वात् । किञ्च नरा-मर-तिर्यगाऽऽयुर्लक्षणं प्रकृतित्रयं मुक्त्वा शेषप्रकृतीनां प्रकृष्टसंक्लेशविशुद्धिभ्यां स्थित्युपचया पचयौ द्रष्टव्यौ, प्रस्तुतात्रयस्य तु तद्रन्धकेषु सर्वोत्कृष्टविशुद्धिः उत्कृष्टस्थितिबन्धं करोति, सर्वजघन्यसंक्लिष्टस्तु सर्वजघन्यमिति 'विपरीतं तद् द्रष्टव्यमिति ||१२||
सर्वप्रकृतीनामुत्कृष्टा स्थितिरुत्कृष्टसंक्लेशेन कषायरूपेण बध्यत इत्युक्तम्, न च केवलकषायेण स्थितिर्वध्यते किं तर्हि ? योगसहचरितेन, अतस्तं योगं सर्वजीवेष्वल्पबहुत्वद्वारेण चिन्तयन्नाह - सुहुमनिगोयाइखणऽप्पजोग बायरय विगलअमणमणा ।
अपज लहु पढमदुगुरु, पज हस्सियरो असंखगुणो ।। ५३ ।। इह योगो वीर्यं स्थाम इत्यादि पर्यायाः । तथा चाह -
,
योगो विरियं थामो, उच्छाह परक्कमो तहा चिट्ठा |
सत्ती सामत्थं चिय, जोगस्स हवंति पज्जाया || (पञ्चसं० गा० ३९६ )
स च योगस्त्रिधा - मनोयोगो वाग्योगः काययोगश्चेति । उक्तं च कर्मप्रकृतौ - परिणामा ऽऽलंबण- गहणसाहणं तेण लद्धनामतिगं ।
कज्जब्भासा ऽन्नुन्नप्पवेसविसमीकयपएसं || ( गा० ४)
१ सं० १-२ त० ०परीतं द्रष्ट० ॥ २ योगो वीर्य स्थाम उत्साहः पराक्रमस्तथा चेष्टा । शक्तिः सामर्थ्यं चैव योगस्य भवन्ति पर्यायाः ॥