________________
५१-५२ ]
शतकनामा पञ्चमः कर्मग्रन्थः ।
स्थितिस्तावत्समया भवन्ति तावत्प्रमाणा असङ्ख्ये या द्रष्टव्याः, असत्कल्पनया च पञ्च दर्शिताः । तत्रैतनत् स्यात्-इहैकस्थितिजनकान्यप्यध्यवसाय स्थानान्यसङ्ख्ये यानि परस्परं विचित्रा- : ण्यभ्युपगम्यन्ते, तद्वैचित्र्याभ्युपगमे च स्थितेरपि वैचित्र्यं प्राप्नोतीति, तदयुक्तम्, तानि ह्यकस्थितिजनकान्यपि सन्ति क्षेत्र काला-नुभाग - योगादिवैचित्र्याद् विचित्राण्युच्यन्ते, न स्थितिमाश्रित्य तेषामेकस्थितिजनकाविशेषेण वैचित्र्यासिद्धेरित्यलमप्रस्तुतेन । प्रस्तुतमुच्यते
सर्वोत्कृष्ट स्थितिजनकानि चरमपक्तिनिदर्शितानि यानि स्थितिबन्धाध्यवसायस्थानानि तेषां मध्ये यच्चरममध्यवसायस्थानं तदुत्कृष्टसंक्लेश उच्यते, तेपामेवाद्य मीपदुच्यते, उभयान्तरालवतीनि तु मध्यमानि ततश्चैतैरीपन्मध्यमोत्कृष्टैः स्थितिबन्धाध्यवसायस्थानैरुत्कृष्टा स्थितिatra | अथवा चरमस्थितिबन्धाध्यवसायस्थानमुत्कृष्टसंक्लेश उच्यते, शेषाणि तु चरमपङ्क्तिनिदर्शितानि स्थितिबन्धाध्यवसायस्थानानि ईपन्मध्यमान्युच्यन्ते, तैश्चरमपङ्क्तिनिदर्शितैः सर्वोत्कृष्टस्थितिजनकैः सर्वैरपि स्थितिबन्धाध्यवसायस्थानैरुत्कृष्टा स्थितिर्जन्यत इति भावः । यदुक्तं बृहच्छतके ज्येष्ठस्थितिबन्ध प्रस्तावे -
५६
'उक्कोस संकिलेसेण ईसिमह मज्झिमेणावि || ( गा० ६२)
ततश्चायं प्रस्तुतार्थः - सर्वासामपि प्रकृतीनां ज्येष्ठा स्थितिरशुभा, यस्मात् साऽतिसंक्लेशेनात्यन्ततीकपायोदयेन बध्यते । एतदुक्तं भवति - सर्वासां शुभानामशुभानां च प्रकृतीनां स्थितयः संक्लेशवृद्धौ वर्धन्ते तदपचये तु हीयन्त इत्यन्वयव्यतिरेकाभ्यां संक्लेशमेव स्थितयोऽनुवर्तते इत्यशुभाः, अशुभ कारणनिष्पन्नत्वात्, अशुभ वृक्षाशुभफलवत् । नन्वेवं तर्हि "ठिइ अणुभागं कसायओ कुणइ " ( शत० गा० ९९) इति वचनाद् अनुभागोऽपि कपायप्रत्यय एव, ततोऽयमप्यशुभकारणत्वाद् अशुभ एव प्राप्नोति, अथ च शुभप्रकृतीनामसौ शुभ एवेष्यत इति नैवम् अभिप्रायापरिज्ञानात् यतः सत्यपि हि कपायजन्यत्वे कषायवृद्धावनुभागोऽशुभप्रकृतीनामेव वर्धते शुभानां तु परिहीयत एवं कषायमन्दतया तु शुभप्रकृतीनामेवानुभागो वर्धतेऽशुभप्रकृतीनां तु हीयत इति न कपायमनुवर्तते ।
"
,
स्थितयस्तु शुभानामशुभानां च प्रकृतीनां कषायवृद्धौ नियमाद् वर्धन्ते तदपचये त्वपचीयन्त इत्येकान्तेन कपायान्वयव्यतिरेकानुविधायित्वाद् अशुभा एवेति । यदि वा यथा यथा शुभप्रक्रतीनां स्थितिर्वर्द्धते तथा तथा शुभानुभागस्तत्सम्बन्धी हीयते, परिगालितर सेक्षुयष्टिकल्पानि शुभकर्माणि भवन्तीत्यर्थः, अशुभप्रकृतीनां तु स्थितिवृद्धावशुभरसोऽपि तत्सम्बन्धी वर्धत एवेत्यतोऽपि कारणात् स्थितीनामेवाशुभत्वम्, तद्वृद्धेः शुभानुभागक्षय हेतुत्वाद् अशुभानुभागवृद्धिहेतुत्वाच्चेति । १ उत्कृष्टसंक्लेशेन ईपदथ मध्यमेनापि ॥