________________
देवेन्द्रसूरिविरचितः स्वोपज्ञटीको पैतः
[ गाथा
अत्र च विशेषानिर्देशेऽपि संयतोत्कृष्ट स्थितिबन्धादारभ्य संज्ञिपञ्चेन्द्रियापर्याप्तोत्कृष्ट स्थितिबन्थं यावद् ये केचन स्थितिबन्धा निरूपितास्ते सर्वेऽपि सागरोपमान्तः कोटीकोटीप्रमाणा एवावसेयाः,कमप्रकृत्यादिषु तथैवोक्तत्वात् । सर्वोत्कृष्टस्थितिबन्धस्तु संज्ञिपञ्चेन्द्रियमिथ्यादृष्टेः पर्याप्तस्यैव भवति नान्यस्य, " 'सव्वाण वि पयडीणं, उक्कोसं समिणो कुणंति ठिई" (पञ्चसं० गा० २७०) इति वचनात् ॥ ५१॥
तदेवं स्थितिबन्धस्याल्पबहुत्वद्वारेण स्वामिनश्चिन्तिताः । अधुना कर्मस्थितेरेव शुभाशुभप्ररूपणां प्रत्ययप्ररूपणागर्भामाह -
५८
सव्वाण विजिट्ट ठिई, असुभा जं साऽइसंकिलेसेणं ।
?
इयरा विसोहिओ पुण, मुस्तु नरअमर तिरियाउँ ।। ५२ ।। 'सर्वासामपि ' शुभानामशुभानामपि कर्मप्रकृतीनां 'ज्येष्ठा स्थितिः' उत्कृष्टा स्थितिः 'अशुभ' अप्रशस्ता, कुतो हेतोः ? इत्याह- "जं साइकिलेसेणं" ति 'यद्' यस्मात् कारणात् 'सा' ज्येष्ठा स्थितिः 'अतिसंक्लेरोन' अत्यन्ततीत्रकपायोदयेनोत्कृष्टस्थितिबन्धाध्यवसायस्थानकेन जन्तुभिर्वध्यत इति शेषः । ननु कः स्थितिबन्धाध्यवसायस्थानैरियमुत्कृष्टा स्थितिर्निर्वर्त्यते इति चेद् उच्यते - इह ज्ञानावरणादिकर्मणः सर्वजघन्याया अपि स्थितेर्निर्वर्तकानि यथोत्तरं विशेषवृद्धानि असङ्घये यलोकाकाशप्रदेशप्रमाणानि स्थितिबन्धाध्यवसायस्थानानि भवन्ति । एतैश्व सर्वैरप्येकैव जघन्या स्थितिर्नानाजीवानाश्रित्य जन्यते, पृथगनेकशक्त्युपेतवहुपुरुपैर्वारकवारकेण निर्वर्त्यमानकटाद्येक कार्यवत् । ततः समयोत्तरां स्थिति यानि निर्वर्तयन्ति तान्यपि यथोत्तरं विशेषत्रूर्द्धनि असङ्ख्ये यलोकाकाशप्रदेशप्रमाणान्यन्यानि स्थितिबन्धाध्यवसायस्थानानि भवन्ति, केवलं पूर्वेभ्यो विशेषाधिकानि । ततो द्विसमयोत्तरां स्थिति निर्वर्तयन्ति यानि तान्यनन्तरेभ्योऽपि विशेषाधिकानि, त्रिसमयाधिकां तु तां यानि निर्वर्तयन्ति तान्यमीभ्योऽपि विशेषाधिकानि, तामेव चतुःसमयाधिकां यानि निर्वर्तयन्ति तानि तेभ्योऽपि विशेषाधिकानि, एवं तावन्नयं यावत् सर्वोत्कृष्टां स्थितिं यानि निर्वर्तयन्ति तान्यपि समयोनोत्कृष्टस्थितिजनकाध्यवसायस्थानेभ्योऽन्यानि विशेषाधिकानि असङ्ख्यं यलोकाकाशप्रदेशप्रमाणानि यथोत्तरं विशेषवृद्धानि स्थितिवन्धाध्यवसायस्थानानि भवन्ति । एतानि च स्थाप्यमानानि विषमचतुरस्र क्षेत्रनान्तृणन्ति । तत्र प्रथमपङ्क्तावप्यसङ्ख्ये यलोकाकाशप्रदेशप्रमाणानि द्रष्टव्यानि, त्कल्पनया चतुःसङ्ख्यात्वेन दर्शितानि द्वितीयादिपङ्क्तिषु तान्येव विशे
1
पाधिकानीति पञ्चादित्वेन दर्शितानि । एताश्चैवं पङ्क्तयो जघन्यायाः स्थितेरारभ्य यावदुत्कृष्टा
१ सर्वासामपि प्रकृतीनामुत्कृष्टां संज्ञिनः कुर्वन्ति स्थितिम् ॥
10000
स्थापना- 0000000
किन्त्वस---
000000 00000 cooc