________________
५२
देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः
[गाथा __एवं "चउहा सग अजहन्नु" त्ति "सग" ति सप्तानां मूलप्रकृतीनां ज्ञानावरण दर्शनावरणवेदनीय-मोहनीय-नाम-गोत्रा-ऽन्तरायलक्षणानां सम्बन्धिन्यः याः स्थितयस्तासां यः 'अजघन्यः' अजघन्यबन्धः सः 'चतुर्धा' चतुर्विकल्पः सादिरनादिध्रुवोऽध्रुवश्चेति । तथाहि-एतासां प्रकतीनां मध्ये मोहनीयस्य क्षपकानिवृत्तिबादरचरमस्थितिबन्धे जघन्यः स्थितिबन्धःप्राप्यते, शेषप्रकृतिषटकस्य तु क्षपकसूक्ष्मसम्परायचरमस्थितिबन्धेऽसौ लभ्यते, ततोऽन्यः सर्वोऽप्युपशमश्रेणावप्यजघन्यो भवति, उपशमकस्यापि क्षपकाद् द्विगुणवन्धकत्वादजघन्य एव भवतीति भावः । ततश्चोपशान्तमोहावस्थायामजयन्यबन्धस्याबन्धको भूत्वा यदा प्रतिपत्य पुनरपि प्रस्तुतप्रकृतिसप्तकस्याजघन्यं बध्नाति तदाऽजघन्यवन्धः सादिभवति, बन्धव्यवच्छेदानन्तरं तत्प्रथमतया बध्यमानत्वात् । उपशान्तमोहाद्यवस्थां चाऽप्राप्तपूर्वाणां बन्धव्यवच्छेदाभावेनाऽनादिकालान्निरन्तरं बध्यमानत्वादनादिः । अभव्यानां ध्रुवोऽभाविपर्यन्तत्वात् । भव्यानामधूवो भाविपर्यन्तत्वात् ।
"सेसतिगे आउचउसु दुह" त्ति 'शेषत्रिके' जघन्यउत्कृष्टा-ऽनुत्कृष्टलक्षणे एतासां मूलप्रकृतीनां बन्धः “दुह" त्ति सादिरध्रुवश्च भवति । तथाहि-एतासां प्रकृतीनां मध्ये मोहनीयस्य क्षपकानिवृत्तिवादरचरमस्थितिबन्धे, शेषाणां तु क्षपकसूक्ष्मसम्परायचरमस्थितिबन्धे जघन्यो वन्धोऽन्तरमेवोक्तः, स चाऽबद्धपूर्वोऽजघन्यबन्धादवतीर्य तत्प्रथमतया तस्मिन्नेव समये बध्यत इति सादिः, ततः परं क्षीणमोहाद्यवस्थायां सर्वथा न भवतीत्यध्रुव इति द्वादेव विकल्पो सम्भवतो न शेषौ । उत्कृष्टस्तु त्रिंशत्सागरोपमकोटीकोटयादिकः सर्वसंक्लिष्टमिथ्यादृष्टिपर्याप्तसंज्ञिपञ्चेन्द्रिये लभ्यते, स चानुत्कृष्टबन्धादवतीर्य कदाचिदेव बध्यते न सर्वदेति सादिः, अन्तमुहूर्ताच्च परं नियमादनुत्कृष्ट बनतोऽसौ निवर्तत इत्यध्रुवः, उत्कृष्टाच्च प्रतिपत्य अनुत्कृष्टं बध्नातीत्यनुत्कृष्टोऽपि सादिः, ततः परं जघन्यतोऽन्तमुहूर्तेन उत्कृष्टतस्त्वनन्तोत्सर्पिण्यवसर्पिणीपर्यन्ते पुनरुस्कृष्ट बनतोऽनुत्कृष्टो निवर्तत इत्यध्रुव इति । एवमुत्कृष्टा-ऽनुत्कृष्टेषु जीवाः परिभ्रमन्तीति द्वयोरप्यनादिध्रुवत्वासम्भवः । “आउचउसु दुह" त्ति आयुश्चतुष्टये 'द्विप्रकारः' द्विविकल्पः सादिरध्रुवश्च वन्धो भवतीत्यर्थः । आयुपो हि उत्कृष्टादिवन्धो वेद्यमानायुषस्त्रिभागादौ प्रतिनियतकाल एव बध्यमानत्वात् सादिः, अन्तमुहूर्ताच परमवश्यमुपरमत इत्यध्रुव इति ॥४६॥
चउभेओ अजहन्नो, संजलणावरणनवगविग्याणं ।
सेसतिगि साइअधुवो, तह चउहा सेसपयडोणं ॥४७॥ संज्वलनानां-क्रोध-मान-माया-लोभलक्षणानां चतुर्णाम् आवरणनवकस्य-ज्ञानावरणपश्चकदर्शनावरणचतुष्कलक्षणस्य विघ्नानां पञ्चाना-दान-लाभ-भोग-उपभोग-वीर्यान्तरायलक्षणानां सम्बन्धी अजघन्यो बन्धः 'चतुर्भेदः, सादि-अनादि-ध्रुवा-ऽध्रुवलक्षणश्चतुर्विकल्पो भवति । तथाहिएतासामष्टादशप्रकृतीनां पूर्वोक्तयुक्तित एवोपशमश्रेणी बन्धव्यवच्छेदं कृत्वा प्रतिपत्य पुनरजघन्यं