________________
५१
४४-४६ ]
शतकनामा पञ्चमः कर्मग्रन्थः । मुत्कृष्टां वा कुर्वन्तीति तेऽपीहोपेक्षिताः । “सन्नी वि आउ" त्ति संज्ञी अपिशब्दाद् असंज्ञी गृह्यते, ततः संज्ञी असंज्ञी वा आयुश्चतुःप्रकारमपि जघन्यस्थितिकं करोति । तत्र देव-नारकायुषोः पञ्चेन्द्रियतिर्यङ् मनुष्याः, मनुष्य तिर्यगायुषोः पुनरेकेन्द्रियादयो जघन्यस्थितिकर्तारो द्रष्टव्याः । उक्ताः पञ्चत्रिंशत्प्रकृतीनां जघन्यस्थितिबन्धस्वामिनः ।।
शेषाणामाह-"बायरपज्जेगिंदी उ सेसाणं" ति 'शेषाणां' भणितोद्धरिताना-निद्रापञ्चकाऽसातवेदनीया-ऽनन्तानुबन्धिचतुष्काऽप्रत्याख्यानावरणचतुष्क-प्रत्याख्यानावरणचतुष्क- नपुः-- सकवेद-स्त्रीवेद-हास्यादिषट्क-मिथ्यात्व-मनुष्यगति-तियेग्गति-जातिपञ्चक-ओदारिकशरीर ओदारिकाङ्गोपाङ्ग-तैजस कार्मण-संहननषट्क-संस्थानषट्क-वर्णचतुष्क-मनुजानुपूर्वी-तिर्यगानुपूर्वी-प्रशस्ताऽप्रशस्तविहायोगति-पराघात-उच्छ्वासा-ऽऽतप उद्योताऽगुरुलघु-निर्माण--उपघात-त्रसनवकस्थावरदशक-नीचैर्गोत्रलक्षणानां पञ्चाशीतेः प्रकृतीनां बादरः पर्याप्तस्तद्वन्धकेषु सर्वविशुद्ध एकेन्द्रियः पल्योपमासङ्ख्य यभागहीनसागरोपमद्विसप्तभागादिकां जघन्यां स्थितिं करोति । अन्ये ह्य केन्द्रियास्तथाविधविशुद्धयभावात् बृहत्तरां स्थितिमुपकल्पयन्ति । विकलेन्द्रिय पञ्चेन्द्रियेषु शुद्धिरधिकाऽपि लभ्यते केवलं तेऽपि स्वभावादेव प्रस्तुतप्रकृतीनां महतीं स्थितिमुपरचयन्तीति शेषपरिहारेण यथोक्तैकेन्द्रियस्यैव ग्रहणमिति ।।४५।।
प्रतिपादितं जघन्यस्थितिबन्धमाश्रित्य स्वामित्वम् । अथ स्थितिबन्ध एवोत्कृष्टानुत्कृष्टादिभङ्गकान् विचारयितुमाह
उक्कोसजहन्नेयर, भंगा साई अणाइ धुव अधुवा ।
चउहा सग अजहन्नो, सेसतिगे आउचउसु दुहा ॥४६॥ बन्धशब्दः प्रक्रमाद् लभ्यते, तत उत्कृष्टबन्धः १ जघन्यवन्धः २ "इयर" ति उत्कृष्टवन्धप्रतिपक्षोऽनुत्कृष्टवन्धः ३ जघन्यवन्धप्रतिपक्षोऽजघन्यवन्धः ४ इति चत्वारो भङ्गाः । तत्र यतोऽन्यो बृहत्तरबन्धो नास्ति स उत्कृष्टबन्धः, ततोऽधस्तात् समयहानिमादो कृत्वा यावद् जघन्यबन्धस्तावत् सर्वोऽप्यनुत्कृष्टवन्ध इत्युत्कृष्टा ऽनुत्कृष्टप्रकाराभ्यां सर्वे स्थितिविशेषाः सङ्ग्रहीताः । यस्मादन्यो हीनतरबन्धो नास्ति स जघन्यवन्धः, ततः परं समयवृद्धिमादौ कृत्वा यावद् उत्कृष्टस्तावत् सर्वोऽप्यजघन्यवन्ध इति जघन्या ऽजघन्यप्रकाराभ्यां वा सर्वेऽपि स्थितिविशेषाः सङ्ग्रहीताः । अथवाऽन्यथा बन्धस्य चत्वारो भङ्गाः, तद्यथा-सादिबन्धः १ अनादिवन्धः २ ध्रुवबन्धः ३ अध्रुवबन्धः ४ चेति । तत्र यः पूर्वं व्यवच्छिन्नः पश्चात् पुनरपि भवति स सादिबन्धः । यस्त्वनादिकालात् सन्तानभावेन प्रवृत्तो न कदाचिद् व्यवच्छिन्नः सोऽनादिबन्धः । यः पुनरग्रेऽपि न कदाचिद् व्यवच्छेदं प्राप्स्यति सोऽभव्यसम्बन्धी बन्धो ध्रुवः । यः पुनरायत्यां कदाचिद् व्यवच्छेद प्राप्स्यति स भव्यसम्बन्धी बन्धोऽध्रुवबन्धः ।