________________
देवेन्द्रसूरिविरचितः स्त्रोपाटीकोपेतः
[ गाथा त्ति पदैकदेशे पदसमुदायोपचाराद् 'अपूर्वः' अपूर्वकरणक्षपकस्तद्वन्धस्य चरमस्थितिबन्धे वर्तमानः स्थितिमाश्रित्येत्यर्थः, तद्वन्धकेष्वस्यैवातिविशुद्धत्वात् , तिर्यङ् मनुष्य देवायुर्वर्जकर्मणां च जघन्यस्थितेर्विशुद्धिप्रत्ययत्वात् । तथा “अनियट्टि संजलण पुरिस लहु'' ति संज्वलनानां-क्रोधमान-माया-लोभलक्षणानां चतुर्णा 'पुरुषस्य' पुरुषवेदस्य च "लहुँ" ति 'लघुस्थिति' जघन्यस्थितिबन्धम् , "अनियट्टि" त्ति अनिवृत्तिबादरः क्षपकस्तद्वन्धस्य यथास्वं चरमस्थितिबन्धे वर्तमानः करोति, तद्वन्धकेष्वस्यैवातिविशुद्धत्वादिति ।।४४।।
सायजसुच्चावरणा, विग्छ सहुमो विउव्विछ असन्नी ।।
सन्नी वि आउबायरपज्जेगिंदी उ सेसाणं ॥४५॥ 'सात' सातवेदनीयं “जस" त्ति यशःकीर्तिनाम "उच्च" त्ति उच्चैर्गोत्रम् “आवरण" त्ति ज्ञानावरणपश्चकं दर्शनावरणचतुष्कं 'विघ्नम्' अन्तरायपश्चकं "सुहुमो" ति सूक्ष्मसम्परायक्षपकश्चरमस्थितिबन्धे वर्तमानो लघुस्थितिकं करोति, तद्वन्धकेष्वस्यैवातिविशुद्धत्वात् । “विउव्विछ असन्नि" ति 'वैक्रियषट्कं' नरकद्विक-वैक्रियद्विक-देवद्विकलक्षणम् , असंज्ञी तिर्यक्पञ्चेन्द्रियः सर्वपर्याप्तिभिः पर्याप्तो लघुस्थितिकं करोति । किमुक्तं भवति ?-वैक्रियपट्कं हिं नामप्रकृतयः, नाम्नश्च द्वौ सप्तभागौ पल्योपमासङ्ख्य यभागोनो एकेन्द्रियाणां जघन्या स्थितिः प्रतिपादिता, सा च सहस्रगुणिता सागरोपमसप्तभागसहस्रद्वयप्रमाणा वैक्रियपदकस्य जघन्या स्थितिर्भवति, वैक्रियपट्कस्य च जघन्यस्थितिबन्धका असंज्ञिपञ्चेन्द्रिया एव नैकेन्द्रियादयः, ते चासंज्ञिपञ्चेन्द्रिया जघन्यां स्थितिमेतावतीमेव बध्नन्ति न न्यूनामपि, यदुक्तम्
वेउव्विछक्कि तं सहसताडियं जं असण्णिणो तेसिं ।
पलियासंखंसूणं, ठिई अबाहूणिय निसेगो ।। ( पञ्चसं० गा० २५६) अस्या अक्षरगमनिका-“वग्गुक्कोमठिईणं मिच्छत्तुक्कोसियाइ" ( कर्मप्रकृ० गा० ७६ ) इत्यनेन करणेन यद् लब्धं तत् 'सहस्रताडितं' सहस्रगुणितं ततः पल्योपमासङ्खये यांशेनभागेन न्यूनं सद् 'वैक्रियपट्के' देवगति देवानुपूर्वी-नरकगति-नरकानुपूर्वी-बै क्रियशरीर-वैकियाङ्गोपाङ्गलक्षणे जघन्यस्थितेः परिमाणमवसेयम् । कुतः ? इत्याह-'यद्' यस्मात् कारणात् तेषां' वैक्रियपटकलक्षणानां कर्मणामसंज्ञिपञ्चेन्द्रिया एव जघन्यस्थितिबन्धकाः, ते च जघन्यां स्थितिमेतावतीमेव बध्नति न न्यूनाम् । अन्तर्मुहूर्तमवाधा, अबाधाहीना च कर्मस्थितिः कर्मदलिकनिषेक इति ॥
किश्च एताः षट् प्रकृतयो यथासम्भवं नरक-देवलोकप्रायोग्या वन्यन्ते । तत्र च देवनारका ऽसंज्ञिमनुष्य-एकेन्द्रिय-विकलेन्द्रिया नरकेषु देवलोकेषु [ च ] नोत्पद्यन्त एवेति तेषामेतद्वन्धासम्भवः । तिर्यङ्-मनुष्यास्तु संज्ञिनः स्वभावादेव प्रकृतप्रकृतिपटकस्य स्थिति मध्यमा