________________
४३-४४ ]
शतकनामा पञ्चमः कर्मग्रन्थः ।
प्रस्तुतप्रकृतिपट्कस्य विंशतिसागरोपमकोटीकोटीलक्षणामुत्कृष्टां स्थितिं रचयन्ति । अत्र च सामान्योक्तावपि सेवार्तसंहनन - औदारिकाङ्गोपाङ्गलक्षणप्रकृतिद्वयस्योत्कृष्टस्थितिबन्धका देवा ईशानादुपरितनसनत्कुमारादय एव द्रष्टव्या नेशानान्ता देवाः, ते हि तत्प्रायोग्य संक्लेशे वर्तमानाः प्रकृतप्रकृतिद्वयस्योत्कृष्टतोऽप्यष्टादशकोटीकोटीलक्षणां मध्यमामेव स्थितिं रचयन्ति । अथ सर्वोत्कृष्टसंक्लेशा गृह्यन्ते ताँ केन्द्रियप्रायोग्यमेव निर्वर्तयेयुः, न चैकेन्द्रियप्रायोग्यबन्धे एते प्रकृती वध्येते, तेषां संहननोपाङ्गाभावात्, ""सुरनेरड्या एगिदिया य सव्वे असंघयणी" (जिनभ० सं० ० गा० १६४ ) इति वचनात् । सनत्कुमारादिदेवाः पुनः सर्वसंक्लिष्टा अपि पञ्चेन्द्रिय तिर्यक्प्रायोग्यमेव बध्नन्ति नैकेन्द्रियप्रायोग्यम्, तेषामेकेन्द्रियेषूत्पत्यभावात् । तस्मात् प्रस्तुतप्रकृतिद्विकस्य विंशतिसागरोपमकोटीकोटीलक्षणामुत्कृष्टस्थितिं सर्वसंक्लिष्टाः सनत्कुमारादय एव बनन्ति नाथस्तना देवा इति ।
1
४९
तदेवं जिननामा-ऽऽहारकद्विक--देवायु:--विकलत्रिक सूक्ष्म त्रिकाऽऽयुष्कत्रिक-- देवद्विकवैक्रियद्विक-नरकद्विक-एकेन्द्रियजाति-स्थावरनामा- तपनाम-तिर्यग्विक औदारिकद्विक उद्योतनामसेवार्तसंहननलक्षणानामष्टाविंशतिप्रकृतीनामुत्कृष्टस्थितिबन्धस्वामिन उक्ताः ।
शेपप्रकृतीनां तु का वार्ता ? इत्याशङ्कयाह - "सेस चउगइय" ति भणिताष्टाविंशतिप्रकृतिभ्यः 'शेषाणां' द्विनवतिसङ्ख्यप्रकृतीनां मिथ्यादृष्टयश्चतुर्गतिका अप्युत्कृष्टां स्थिति बध्नन्ति । तत्रैतासु मध्ये वर्णचतुष्क- तेजस - कार्मणा - गुरुलघु-निर्माण- उपाघात-भय-जुगुप्सामिथ्यात्व-कषायपोडशक-ज्ञानावरणपञ्चक-दर्शनावरणनवका ऽन्तरायपञ्चकलक्षणानां सप्तचत्वारिंशतो ध्रुवबन्धिप्रकृतीनां पूर्वव्यावर्णितस्वरूपाणां तथाऽध्रुववन्धिनीनामपि मध्येऽसाता ऽरतिशोक-नपुंसक वेद- पञ्चेन्द्रियजाति -हुण्ड संस्थान- पराघात उच्छ्वासा ऽशुभ विहायोगति त्रस बादरपर्याप्त प्रत्येकाऽस्थिरा -ऽशुभ- दुःस्वर- दुर्भगा ऽनादेया- ऽयशः कीर्ति नीचैर्गोत्र लक्षणानां च विंशतेः प्रकृतीनां सर्वोत्कृष्टसंक्लेशेनोत्कृष्टां स्थितिं चतुर्गतिका अपि मिथ्यादृष्टयो वनन्ति । शेषाणां
ध्रुवबन्धिनीनां सात- हास्य-रति- स्त्री-पु ं वेद-मनुष्यद्विक-सेवार्तवर्जसंहननपञ्चक-हुण्डवर्ज संस्थानपञ्चक- प्रशस्त विहायोगति- स्थिर - शुभ-सुभग-सुस्वरा" ऽऽदेय यशः कीर्ति - उच्चै गोत्र लक्षणानां पञ्चविंशतिप्रकृतीनां तद्बन्धकेषु तत्प्रायोग्यसंक्लिष्टाचतुर्गतिका अपि मिथ्यादृष्टय उत्कृष्टां स्थिति नन्तीति । उक्ता उत्कृष्टस्थितिबन्धस्वामिनः ।
अथ जघन्यस्थितिबन्धस्वामिन आह - " आहारजिणमपुच्चो" इत्यादि । आहारकद्विकं जिननाम “लहुं” ति 'लघुस्थितिकं' जघन्यस्थितिकं करोतीति शेषः । कः ? इत्याह - " अपुव्वु "
१ सुरनैरयिका एकेन्द्रियाश्च सर्वेऽसंहननाः ||
7