________________
देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः
[ गाथा
बध्नन्ति तिर्यङ् - मनुष्यायुषोरपि देवकुर्वादिप्रायोग्य उत्कृष्ट त्रिपल्योपमलक्षणः स्थितिबन्धः प्रकृतः, तत्र च देव-नारका भवप्रत्ययादेव नोत्पद्यन्ते इत्येतद्बन्धोऽप्यमीषां न सम्भवतिः तस्मादेते तिर्यङ्-मनुष्यायुषी उत्कृष्टस्थितिके पूर्वकोट्यायुपस्तिर्यङ्- मनुष्या मिथ्यादृष्टयस्तत्प्रायोग्यविशुद्धाः स्वास्त्रिभागाद्यसमये वर्तमाना बध्नन्तिः सम्यग्दृष्टेरतिविशुद्धमिध्यादृष्टश्व देवायुर्वन्धः स्यादिति मिथ्यादृष्टित्व- तत्प्रायोग्यविशुद्धत्व विशेषणद्वयम् । नारकायुषः पुनरेत एव तत्प्रायोग्यसंक्लिष्टा वाच्याः, अत्यन्तशुद्धस्यात्यन्तसंक्लिष्टस्य चायुर्बन्धस्य सर्वथा निषेधादिति । नरकद्विकवैक्रियद्विकयोस्त्वे एव सर्वसंविलष्टाः पूर्वोक्तोत्कृष्ट स्थितेर्वन्धका वाच्याः । विकलजातित्रिकसूक्ष्मत्रिकयोस्तु तत्प्रायोग्य संक्लिष्टा द्रष्टव्याः, अतिसंक्लिष्टा हि प्रस्तुतप्रकृतिबन्धमुल्लङ्घय नरकप्रायोग्यमेव निर्वर्तयेयुः विशुद्धास्तु विशुद्धितारतम्यात् पञ्चेन्द्रियतिर्यक्प्रायोग्यं वा मनुष्यप्रायोग्यं वा देवप्रायोग्यं वारचयेयुरिति तत्प्रायोग्यसंक्लेशग्रहणम् । देवद्विकस्यापि तत्प्रायोग्य संक्लिष्टा द्रष्टव्याः, अतिसंक्लिष्टानामधोवर्तिमनुष्यादिप्रायोग्यबन्धप्रसङ्गात् विशुद्ध पुनरुत्कृष्टबन्धाभावादिति भाविताः पञ्चदशापि प्रकृतयः । तथा एकेन्द्रियजाति-स्थावरनामा -ऽऽतपनामलक्षणस्य प्रकृतित्रिकस्य 'आ ईशानाद् ' ईशान देवलोकमभिव्याप्य ' सुराः ' देवाः कोऽर्थः ! भवनपतयो व्यन्तरा ज्योतिष्काः सौधर्मेशान देवाः “उक्कोमं" ति उत्कृष्टां स्थिति बध्नन्ति । तथाहि-ईशानादुपरितनदेवा नारकाथ एकेन्द्रियेषु नोत्पद्यन्त इत्येकेन्द्रियप्रायोग्याण्येतानि न बध्नन्त्येवेति तन्निषेधः, तिर्यङ् - मनुष्यास्त्वेतावति संक्लेशे वर्तमाना एतद्वन्धमतिक्रम्य नरकप्रायोग्यमेव बध्नन्तीति तेषामपि निषेधः, ईशानान्तास्तु देवाः सर्वसंक्लिष्टा अप्येकेन्द्रियप्रायोग्यमेव बध्नन्ति, अतस्त एव स्थावर एकेन्द्रिया-ऽऽतपलक्षणप्रकृतित्रयस्य विंशतिसागरोपमकोटीकोटीलक्षणामुत्कृष्टस्थितिं बन्धन्तीति ॥ ४३ ॥
४८
,
तिरिउरलदुगुज्जोयं, छिवट्ठ सुरनिरय सेस चउगइया |
आहारजिणमपुव्वोऽनियहि संजलण पुरिस लहु ||४४||
द्विकशब्दस्य प्रत्येकं सम्बन्धात् तिर्यद्विकं तिर्यग्गति तिर्यगानुपूर्वीरूपम्, औदारिकद्विकम्-औदारिकशरीर-औदारिकाङ्गोपाङ्गलक्षणम्, उद्योतनाम सेवार्तसंहनननाम इत्येतासां प प्रकृतीनामुत्कृष्टस्थिति सुर-नारका बध्नन्ति, सर्वत्र विभक्तिलोपः प्राकृतत्वात्, न मनुष्य तिर्यञ्चः, तेहि सन्धार्ह संक्लेशे वर्तमाना एतासां पप्रकृतीनामुत्कृष्टतोऽप्यष्टादशकोटीको टिलक्षणामेव मध्यमां स्थितिमुपर चयन्ति, अथाऽभ्यधिकसंक्लेशे वर्तमाना गृह्यन्ते तर्हि प्रस्तुतप्रकृतिबन्धमतिक्रम्य नरकप्रायोग्यमुपरचयेयुः, देव-नारकास्तु सर्वोत्कृष्टसंक्लेशा अपि तिर्यग्गतिप्रायोग्यमेव वघ्नन्ति न नरकगतिप्रायोग्यम्, तत्र तेषामुत्पत्यभावात् तस्माद् देव नारका एव सर्वसंक्लिष्टाः