________________
४२-४३ ]
शतकनामा पञ्चमः कर्मग्रन्थः ।
ननु यदि विशुद्धि इदमायुष्कद्वयं बध्यते तर्हि मिथ्यादृष्टेः सकाशात् सास्वादनो विशुद्धतरः प्राप्यते, स कस्माद् एतद्बन्धकत्वेन नोक्तः १ न च वक्तव्यं तिर्यङ् - मनुष्यायुषी सास्वादनो न बध्नाति, तद्बन्धस्य सप्ततिकादिष्वस्यानुज्ञानात्, तथा चोक्तमायुः संवेधभङ्गकावसरे सप्तनिटीकायाम् -
४७
तिर्यगायुषो वन्धो मनुष्यायुप उदयस्तिर्यङ- मनुष्यायुषी सती, एष विकल्पो मिथ्यादृष्टेः सास्वादनस्य वा । मनुष्यायुषो बन्धो मनुष्यायुष उदयो मनुष्य मनुष्यायुषी सती, एषोऽपि विकल्पो मिथ्यादृष्टेः सास्वादनस्य वा । ( पत्र १३१ - २ )
तत् कथमुक्तं "मिच्छद्दिट्ठी बंध, जिठ्ठठि सेसपयडीणं ।। " ? इति । अत्र प्रतिविधीयतेसत्यामपि हि सामान्यतो मनुष्य तिर्यगायुर्बन्धानुज्ञायामसङ्ख्यं यवर्षायुष्कयोग्यमुत्कृष्टं प्रस्तुतायुर्द्वर्यं सास्वादनो न निर्वर्तयति, सास्वादनस्य गुणप्रतिपाताभिमुखत्वेन गुणाभिमुख विशुद्ध मिथ्यादृष्टेः सकाशाद् विशुद्धयाधिक्यस्यानवगम्यमानत्वात्, शास्त्रान्तरेऽपि च मिथ्यादृष्टेः सकाशादविरतादय एव यथोत्तरमनन्तगुणविशुद्धाः पठ्यन्ते, न सास्वादनः । न चैतन्निजमनीपिकाशिल्पिकल्पितम्, यदाहुः शिवशर्मसूरिपूज्याः -
'सव्वक्को सठिणं, मिच्छदिट्ठी उ बंधओ भणिओ 1
आहारंग तित्थयरं देवाउं वा वि मुत्तूणं ॥ ( शत० गा० ५६ ) ॥ ४२ ॥
"
इह पूर्व संक्लिष्टो मिथ्यादृष्टिः पोडशोत्तरप्रकृतिशतस्योत्कृष्ट स्थितिबन्धकः सामान्येनैवोक्तः । स च नरकादिभेदेन चिन्त्यमानश्चतुर्धा भवति, ततो नारकास्तिर्यञ्चो मनुष्या देवाश्च मिथ्यादृष्टयः पृथक् केषां कर्मणां स्थितिरुत्कृष्टा बध्नन्ति ? इति भेदतश्चिन्तयन्नाह —
विगलमा उगतिगं, तिरिमणुया सुरविउब्धिनिरयदुगं । एगिंदिथावरायव, आ-ईसाणा सुरुक्कांसं ||४३|
त्रिकशब्दस्य प्रत्येकं सम्बन्धाद् विकलत्रिकं - द्वीन्द्रिय-त्रीन्द्रिय- चतुरिन्द्रियजातिलक्षणम्, सूक्ष्मत्रिकं-सूक्ष्मा-ऽपर्याप्त-साधारणरूपम्, आयुस्रिकं - देवायुर्वेर्ज नारक - तिर्यङ्-मनुष्यायुर्लक्षणम्, द्विकशब्दस्यापि प्रत्येकं सम्बन्धात् सुरद्विकं सुरगति-सुरानुपूर्वी स्वरूपम्, वैक्रियद्विकंवैक्रियशरीर- वै क्रियाङ्गोपाङ्गलक्षणम्, नरकद्विक- नरकगति नरकानुपूर्वीलक्षणमित्येतासां पञ्चदशप्रकृतीनामुत्कृष्टां स्थितिं तिर्यङ् - मनुष्या एव मिथ्यादृष्टयो बध्नन्ति न देव- नारकाः । नारका ह्येतासां मध्ये तिर्यङ् - मनुष्यायुर्द्वयं मुक्त्वा शेषास्त्रयोदशप्रकृतीर्भवप्रत्ययेनैव न
१ सर्वोत्कृष्टस्थितीनां मिध्यादृष्टिस्तु बन्धको भणितः । आहारकं तीर्थकरं देवायुः वाऽपि मुक्त्वा ॥