________________
२५
देवेन्द्रसूरिविरचितः स्वोपज्ञटी कोपेतः
[ गाथा अविरयसम्मे समज्जेइ ।।" (शत० गा०६०) इति वचनात् । इयमत्र भावना-तीर्थकरनाम्नो ह्यविरतसम्यग्दृष्टयादयोऽपूर्वकरणावसाना बन्धका भवन्ति किन्तूत्कृष्टा स्थितिलकृष्टसंक्लेशेन बध्यते, स च तीर्थकरनामबन्धकेश्व विरतस्यैव यथोक्तविशेषण विशिष्टस्य लभ्यत इति शेषव्युदासेनास्यैवोपादानमिति भावः । तत्र तिर्यश्वस्तीर्थकग्नाम्नः पूर्वप्रतिपन्नाः प्रतिपद्यमानकाश्च भवप्रत्ययेनेव न भवन्तीति मनुष्यग्रहणम् । बद्धतीर्थकरनामकर्मा च पूर्वमबद्धनरकायुनेरकं न बजतीति पूर्व नरकवद्भायुष्कस्य ग्रहणम् , क्षायिकसम्यग्दृष्टिश्च श्रेणिकादिवत् ससम्यक्त्वोऽपि कश्चिन्नरकं प्रयाति, किन्तु तस्य विशुद्धत्वेनोत्कृष्टस्थित्यबन्धकत्वात् तस्या एव चेह प्रकृतत्वाद् नासो गृह्यते, अतस्तीर्थकरनामकर्मोत्कृष्टस्थितिबन्धकत्वाद् मिथ्यात्वाभिमुखस्येव ग्रहणमिति ।
तथा 'आहारकद्विकम्' आहारकशरीरा-ऽऽहारकाङ्गोपाङ्गलक्षणं "पमत्त" ति प्रमत्तसंयतोऽ. प्रमत्तभावानिवर्तमान इति विशेपो दृश्यः, उत्कृष्ट स्थतिक बध्नाति । अशुभा हीयं स्थितिरित्युत्कृष्टसंक्लेशेनेवोत्कृष्टा वध्यते, तद्वन्धकश्च प्रमत्तयतिरप्रमत्तभावान्निवर्तमान एवोत्कृष्टसंक्लेशयुक्तो लभ्यत इतीत्थं विशिष्यते । तथा 'अमरायुः' देवायुकं प्रमत्तसंयतः पूर्वकोट्यायुरप्रमत्तभावाभिमुखो वेद्यमानपूर्वकोटीलक्षणायुपो भागद्वये गते सति तृतीयभागस्याडसमये उत्कृष्टस्थितिकं पूर्वकोटित्रिभागाधिकत्रयस्त्रिंशत्सागगेपमलक्षणं बध्नाति । पूर्वकोटीत्रिभागस्य द्वितीयादिसमयेषु बध्नतो नोत्कृष्टं लभ्यते, अबाधायाः परिगलितत्वेन मध्यमत्वप्राप्तेरित्यायसमयग्रहणम् । अप्रमत्तभावाभिमुखताविशेषणं तर्हि किमर्थम् ? इति चेद् उच्यते-शुभेयं स्थितिर्विशुद्धया बध्यते, सा चास्याऽप्रमत्तभावाभिमुखस्यैव लभ्यत इति । तद्य प्रमत्त एव कस्माद् एतद्वन्धकत्वेन नोच्यते ? इति चेद् उच्यते-अप्रमत्तस्यायुर्वन्धारम्भनिषेधात् , "'देवाउयं पमत्तो' (शत० गा०६०) इति वचनात् प्रमत्तेनेवारब्धमायुर्वन्धमप्रमत्तः कदाचित् समर्थयते, "देवाउयं च इक्कं, नायव्वं अप्पमत्तम्मि" (बृ. कर्मस्तवगा० १६ ) इति वचनात् । शेपाणां षोडशोत्तरशतसङ्खयप्रकृतीनां 'ज्येष्ठस्थितिम्' उत्कृष्ट स्थिति मिथ्या दृष्टिः सर्व पर्याप्तिपर्याप्तः सर्वसंक्लिष्टो बध्नाति, यतः स्थितिरशुभा संक्लेशप्रत्यया च, संक्लिष्टश्च बन्धकेषु मध्ये मिथ्यादृष्टिरेव भवतीति भावः । अत्र च प्रायोवृच्या सर्वसंक्लिष्टत्वमुच्यते, यावता तिर्यङ्-मनुष्यायुषी उत्कृष्ट तत्प्रायोग्यविशुद्धो वघ्नातीति द्रष्टव्यम् , तयोः शुभस्थितिकत्वेन विशुद्धिजन्यत्वात् । उक्तं च
सव्वठिईणं उक्कोसओ उ उक्कोससंकिलेसेण । विवरीए य जहन्नो, आउगतिगवज्ज सेसाणं ॥ (शत० गा० ५८ ) इति ।
१ देवायुष्कं प्रमत्तः॥ २ देवायुष्कं चैकं ज्ञातव्यं अप्रमत्ते ।। ३ सर्वस्थितीनामुत्कृष्टकस्तु उत्कृष्टसंक्लेशेन । विपरीते च जघन्य आयुष्कत्रिकवर्ज शेषाणाम् ।।