________________
३६-४२ ]
शतकनामा पञ्चमः कर्म ग्रन्थः 1
उक्तो भागहारको राशिः । अधुना भाज्यस्य मुहूर्तगत शुल्लक भवग्रहणराशेः प्रमाणमाह"पणसट्ठि" इत्यादि । विभक्तिलोपात् पञ्चपष्टिसहस्राणि पञ्चशतानि पत्रिंशानि' पट्त्रिंशदधिकानि, अङ्कतोऽपि ६५५३६, एक मुहूर्ते क्षुल्लकभवाः, एकमुहूर्त शुल्लकभवग्रहणानि भवन्तीत्यर्थः । पञ्चषष्टिसहस्रपञ्चशतपत्रिंशदधिकलक्षणस्य मुहूर्तगतक्षुल्लक भवग्रहणराशेर्भाज्यस्य मुहूर्त - गतप्राणापानराशिना त्रिसप्तत्यधिकसप्तत्रिंशच्छतप्रमाणेन भागे हृते सति यद् लभ्यते तद् एकत्र प्राणापाने क्षुल्लकभवग्रहणप्रमाणं भवतीति । तानि तु सप्तदश १७ । तथा यैर्भागिहाराङ्कमानैरंशैः क्षुल्लकभवग्रहणं भवति ते त्वत्रैकत्र प्राणापानेऽष्टादशस्यापि क्षुल्लकभवग्रहणस्यांशाः पञ्चनवत्यधिकत्रयोदशशतप्रमाणा अवशिष्यन्ते, अष्टसप्तत्यधिकत्रयोविंशतिशतानि चांशानां न पूर्यन्ते इति । स्थापना -- | _७, अंशाः- १३६५, शेषांशाः - २३७८ । अतो यदुक्तम् - " सत्तरस समहिया किर, इगार पाणुम्मि हुति खुड्डभवा" इति तत् युक्तमिति । क्षुल्लकभवग्रहणं च सर्वेषामप्यौदारिकशरीरिणां भवतीत्यवसेयम्, भगवत्या मेवमेवोक्तत्वात् कर्मप्रकृत्यादिषु औदारिकशरीरिणां तिर्यङ्- मनुष्याणामायुषो जघन्यस्थितेः क्षुल्लकभवग्रहणरूपायाः प्रतिपादनाच्च । यत् पुनरावश्यकटीकायां क्षुल्लकभवग्रहणं वनस्पतिष्वेव प्राप्यत इत्युक्तं तन्मतान्तरमित्यवसीयत इति । साम्प्रतमेकस्मिन् क्षुल्लकभवग्रहणे आवलिकाद्वारेण कालमानं निरूपयितुकामो यावत्य आवलिका एकस्मिन् क्षुल्लकभवग्रहणे भवन्त्येतदेवाह - "आवलियाणं दो सय" इत्यादि । 'आवलिकानां' 'असंखिजाणं समयाणं समुदयसमिइसमागमेण सा एगा आवलियत्ति दुच्चर | ( अनुयो० पत्र१७८-२ ) इत्यागमप्रतिपादितस्वरूपाणां द्वे शते पट्पञ्चाशदधिके भवतः 'एक क्षुल्लकभवे' एव क्षुल्लकभवग्रहण इति ॥ ४१ ॥
प्रतिपादितं स्थितिबन्धप्रसङ्गागतं क्षुल्लकभवग्रहणप्रमाणम् । उक्त उत्कृष्टस्थितिबन्धो वैक्रियपट्कवर्जो जघन्यस्थितिवन्यच सर्वाः प्रकृतीराश्रित्य । सम्प्रत्येता एव प्रकृतीः प्रतीत्योत्कृष्टस्थितिबन्धस्वामिनो निरूपयन्नाह-
,
"
अविरयसम्मो तित्थ, आहारदुगामराउ य पमत्तो । मिच्छद्दिट्ठी बंध, जिइटिई, सेसपगडीणं ॥ ४२ ॥
४५
'अविरत सम्यक्त्वः' अविरतसम्यग्दृष्टिः " व्याख्यानतो विशेषप्रतिपत्तिः" इति न्यायाद् मनुष्यः पूर्व नरकबद्धायुष्को नरकं जिगमिषुरवश्यं मिथ्यात्वं यत्र समये प्रतिपद्यते ततोऽनन्तरेऽर्वास्थितिबन्धे “तित्थं" ति तीर्थकरनाम उत्कृष्टस्थितिकं बध्नाति, " " तित्थयरं पि मरणूसो,
१ असंख्येयानां समयानां समुदयसमितिसमागमेन सा एका आवलिकेत्युच्यते ॥ २ तीर्थंकरमपि मनुष्योऽविरतसम्वत्वः समर्जयति ॥