________________
देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः
ज्येष्ठबन्धेऽपि न केवलं जघन्य एवेत्यपिशब्दार्थः, जघन्याऽवाधाऽन्तमुहूर्तप्रमाणाभवतीति योगः । एतेनायुपश्चतुर्भङ्गकैरवबाधेति सूचितम्, तद्यथा – ज्येष्ठे आयुःस्थितिबन्धे ज्येष्ठाऽबाधा १ ज्येष्ठे आयुःस्थितिबन्धे जघन्याऽवाधा २ जघन्ये आयुःस्थितिबन्धे ज्येष्ठाऽबाधा ३ जघन्ये आयुःस्थितिबन्धे जघन्याऽवाधा ४ इति । अधुना तीर्थकरा ऽऽहारकद्विकयोः प्रानिरूपितामपि जघन्यां स्थिति पुनर्मतान्तरेणाह - "केइ सुराउसमे" इत्यादि । केचिदाचार्याः सुरायुषा-देवायुष्केण दशवर्षसहस्रप्रमाणेन समं तुल्यं सुरायुः समं - देवायुस्तुल्यस्थितिकं जघन्यतो बध्यते । किं तद् ? इत्याह – “जिणं” ति तीर्थकरनामकर्म ब्रुवते । तथा च तैरभ्यधायि ---- सुरनारयाउयाणं, दसवासमहस्स लहु सतित्थाणं | (पञ्चसं० गा० २५३ ) "लहु" त्ति जवन्या स्थितिः 'सतीर्थयोः' तीर्थकरनामयुक्तयोरित्यर्थः ।
४४
[ गाथ
तथा “आहारं" त्ति आहारकद्विकम् - आहारकशरीरा-ऽऽहारकाङ्गोपाङ्गलक्षणमन्तर्मुहूर्त जघन्यतो बध्यते किञ्चिदूनमुहूर्तस्थितिकं जघन्येन बध्यत इति ब्रुवते । तथा च तैरुक्तम्आहारकविग्धावरणाण किंचूर्ण (पञ्चसं० गा० २५४ )
" किंचूर्ण" ति किञ्चिदूनं मुहूर्त जघन्या स्थितिरिति ॥३९॥
तिर्यङ् मनुष्यायुपोर्जघन्या स्थितिः क्षुल्लकभवप्रमाणा भवतीति प्रागुक्तम्, भवं सप्रपञ्चं निरूपयितुकामो गाथायुगलमाह
ततस्तं क्षुल्लक
सत्तरस समहिया किर, इगाणुपाणुम्मि हुति खुड्डभवा । सगनीससतित्तर, पाणू पुर्ण इगमुहुतम्मि ||४०|| पण सहिसहस पणसय, उत्तासा इगमुहुत्त खुड्डभवा । आवलियाणं दो सय, छप्पन्ना एगखुड्डुभवे ॥४१॥
सप्तभिरधिका दश सप्तदश 'समधिकाः ' किञ्चित्समर्गलाः 'किल' इत्याप्तोक्तावित्येवं ब्रुवते । 'एकाऽऽनप्राणे' हृष्टानव कल्पादिगुणोपेतस्य जन्तोरेकस्मिन्नुच्छ्वासनिःश्वासरूपे भवन्ति क्षुल्लका: । सूत्रे च "आणुपाखुम्मि" त्ति उकारः "स्वराणां स्वरा : " ( सिद्ध० ८-४-२३७) इति प्राकृतसूत्रेण । अयमर्थ:- एकस्मिन् प्राणापाने क्षुल्लकभवाः समधिकाः सप्तदश भवन्तीति किलाप्ता ब्रुवते । एते च साधिकसप्तदश क्षुल्लकभवा मुहूर्तगतक्षुल्लक भवग्रहणराशेर्वक्ष्यमाणगाथोपन्यस्तस्य भाज्यस्य मुहूर्तगतप्राणापानराशिनैव भागे हृते लभ्यन्ते, अतः प्रथमं मुहूर्तान्तर्गतप्राणापानराशेर्भागहारकरूपस्य प्रमाणनिरूपणार्थमाह - "सगती ससयतिहुत्तर" इत्यादि । सप्तत्रिंशच्छतानि त्रिसप्तत्यधिकानि, अङ्कतोऽपि ३७७३, "पाणु' ति प्राकृतत्वात् 'प्राणापाना:' उच्छ्वासनिःश्वासाः पुनः 'एकमुहूर्ते' घटिकाद्वयरूपे भवन्ति ॥ ४० ॥