________________
३६-३९
शतकनामा पञ्चमः कर्मग्रन्थः ।
ताडितो द्वीन्द्रियादीनामसंज्ञिपर्यन्तानां प्रायोग्यस्थितितया भवति तान् गुणकारानुत्तरार्धेनाह"कमसो पणवीसाए" इत्यादि । 'क्रमशः ' क्रमेण यथासङ्ख्यमित्यर्थः पञ्चविंशत्या सगुणितः, प्राकृतत्वाद् विभक्तिलोपे पश्चाशता सङ्गुणितः, शतेन सङ्गुणितः, सहस्र ेण सङ्गुणितः ||३७|| ततः किम् ? इत्याह
विगलि असन्निसु जिट्ठो, कणिहओ पल्लसंख भागूणो ।
सुरनरयाउ समादससहस्स सेसाउ खुड्डुभवं ।। ३८ ।।
“विकलेषु' विकलेन्द्रियेषु-द्वीन्द्रिय- श्रीन्द्रिय- चतुरिन्द्रियेषु 'असंज्ञिषु' सम्मूर्च्छजपञ्चेन्द्रियतिर्यङ- मनुष्येषु 'ज्येष्ठः' उत्कृष्टः स्थितिबन्धो भवति । इयमत्र भावना - एकेन्द्रियाणामुत्कृष्टः स्थितिबन्धः सागरोपमसप्तभागत्रयादिकः पञ्चविंशत्या संगुणितो द्वीन्द्रियाणां ज्येष्ठः संभवत्सर्वप्रकृतीरुद्दिश्य स्थितिबन्धो भवति, स एवैकेन्द्रियाणामुत्कृष्टः स्थितिबन्धः पञ्चाशता सगुणितस्त्रीन्द्रियाणां ज्येष्ठः स्थितिबन्धो भवति, स एवैकेन्द्रियाणामुत्कृष्टः स्थितिबन्धः शतेन सङ्गुणिततुरिन्द्रियाणां ज्येष्ठः स्थितिबन्धः, सहस्रेण गुणितोऽमंज्ञिपञ्चेन्द्रियाणां स्वप्रायोग्य सर्वप्रकृतीरधिकृत्य ज्येष्ठः स्थितिबन्धो भवतीति । द्वीन्द्रियादीनामेव जघन्यस्थितिबन्धमानमाह - "काणडओ पल्लसंखभागूणु" त्ति पल्यस्य - पल्योपमस्य सङ्ख्यभागेन - सङ्ख्याततमभागेन ऊन:- न्यूनः उत्कृष्ट एव स्थितिबन्धः 'कनिष्ठकः ' जवन्यस्थितिबन्धो भवति । एतदुक्तं भवति - द्वीन्द्रियत्रीन्द्रियच पुरिन्द्रिया-संज्ञिपञ्चेन्द्रियाणामात्मीय आत्मीय उत्कृष्ट स्थितिबन्ध पत्योपमसङ्ख्यं यमागहीनः कनिष्ठयन्वो भवति । आयुश्चतुष्टयस्य जघन्य स्थितिमानमाह-'सुरनारकायुपोः ' देव-नारकायुष्कयोः समाः - वर्षाणि तासां दश सहस्राणि समादशसहस्राणि दशवर्षसहस्राणीत्यर्थः जघन्या स्थितिर्भवतीति प्रक्रमः । " सेसाउ खुड्डुभव" ति 'शेपायुषोः ' तिर्यङ् - मनुष्यायुष्कयोः "भ" ति क्षुल्लकः सर्वभवापेक्षया लवीयान् लिङ्गव्यत्ययाद् भवः - जन्म क्षुल्लकभवः स घन्या स्थितिर्भवतीति ॥ ३८ ॥
प्ररूपिता जघन्यस्थितिः । इदानीं सर्वोत्तरप्रकृतीः प्रतीत्य जघन्याबाधामाहसव्वाण विलहुबंधे, भिन्नमुहुअा आउजिडे वि । केह सुराउसमं जिणमंतमुहू बिंति आहारं ||३६||
४३
-
'सर्वासामपि' सर्वप्रकृतीनां विंशत्युत्तरशतसङ्ख्यानामपि 'लघुबन्धे' जघन्यस्थितिबन्धे 'भिन्नमुहूर्तम्, अन्तर्मुहूर्तम् 'अबाधा' अनुदयकालः । किं सर्वप्रकृतीनां जघन्यबन्ध एवेयं जघन्याऽबाधा ? आहोश्चिदस्ति कासाश्चिदियमुत्कृष्टेऽपि १ इत्याह- 'आउजिट्ठ े वि" आयुष -- ज्येष्ठेऽपि