________________
देवेन्द्रसूरविरचितः स्वोपज्ञटीकोपैतः
[गाथा संज्वलनरहितकपायद्वादशकस्य जघन्यस्थितितया बोद्धव्याः। नोकषायमोहनीयस्य तु वर्गोत्कृष्टा स्थितिविंशतिसागरोपमकोटीकोटयः, तस्याश्च मिथ्यात्वस्थित्या भागे हृते लब्धौ द्वौ सागरोपमसप्तभागौ तौ च पल्योपमासङ्खये यभागोनौ पुरुपवेदवर्जानामष्टानां नोकपायाणां जघन्यस्थितितयाऽवसेयो । नाम-गोत्रयोश्च प्रत्येकं विंशतिसागरोपमकोटीकोटयो वर्गोत्कृष्टा स्थितिः, तस्याश्च मिथ्यात्वस्थित्या भागे हृते लब्धो द्वो सागरोए पप्तभागौ , तौ च पल्योमासङ्ख्य यभागोनी देवगति-देवानुपूर्वी-नरकगति-नरकानुपूर्वी क्रियशरीर- क्रियाङ्गोपाङ्गा-ऽऽहारकशरीराऽऽहारकाङ्गोपाङ्ग-तीर्थकर-यशःकीर्तिवर्जानां नाम्नः शेषसप्तपञ्चाशत्प्रकृतीनां नीचेगोत्रस्य च जघन्यस्थितितया बोद्धव्याविति ॥ ॥३६॥ ___ उक्ता सर्वप्रकृतीनां जघन्या स्थितिः । इदानीमेकेन्द्रियाणां सर्वस्वप्रायोग्योत्तरप्रकृतीरुद्दिश्योस्कृष्टां जघन्यां च स्थितिमाह
अयमुक्कोसो गिंदिसु, पलियासंखंसहीण लहुबंधो ।
कमसा पणवीसाए, पन्ना-सय-सहससंगुणिओ ॥३७ ।। 'अयम्' इत्यनन्तरोद्दिष्टो वर्गोत्कृष्टस्थितिबन्धाद् मिथ्यात्वस्थित्या भागे हते लब्धसप्तभागरूप उत्कृष्ट स्थितिबन्ध एकेन्द्रियेषु ज्ञातव्यः । तथाहि-ज्ञानावरणपञ्चक-दर्शनावरणनवकवेदनीयद्विका-ऽन्तरायपञ्चकलक्षणानामेकविंशतिप्रकृतीनां त्रयः सागरोपमसप्तभागाः , यत एतद्वर्गाणां त्रिंशत्सागरोपमकोटीकोटय उत्कृष्टा स्थितिः, तस्या मिथ्यात्वस्थित्या भागे हते त्रय एव सागरोपमसप्तभागा लभ्यन्ते इति । एवमन्यत्रापि भागभावना कार्या । ततश्च मिथ्यात्वस्य सप्त सागरोपमसप्तभागाः ॐ, कपायपाडशकस्य चत्वारः सागरोपमसप्तभागाः, नोकषायनवकस्य द्वौ सागरोपमसप्तभागी, एकेन्द्रियबन्धयोग्यदेवगति-देवानुपूर्वी नरकगति-नरकानुपूर्वी-बै क्रियशरीरवैक्रियाङ्गोपाङ्गा-ऽऽहारकद्विक-तीर्थकरबर्जानां शेषाणां नाम्नोऽष्टपञ्चाशत्प्रकृतीनां गोत्रद्वयस्य च प्रत्येकं द्वौ द्वौ सागरोपमसप्तभागाविति । उक्त एवं न्द्रियाणामुत्कृष्टस्थितिबन्धः । इदानीं तेषामेव जयन्यस्थितिवन्धमाह
''पल्लासखंम" इत्यादि । पल्यस्य-पल्योपमस्यासङ्ख्यांशेन-असङ्खये यभागेन हीनः न्यूनः पल्यासङ्खयांशहीनोऽयमेवोत्कृष्टस्थितिबन्धः सप्तभागत्रयादिकः, किम् ? इत्याह-'लघुबन्धः' जघन्यस्थितिबन्धो भवतीति । अयमभिप्रायः-यासां प्रकृतीनां यावत्प्रमाणः सप्तभागरूप एकेन्द्रियाणामुत्कृष्टः स्थितिबन्ध उक्तस्तासां तावत्प्रमाणः सप्तभागरूप एव पल्योपमासङ्खये यभागहीनस्तेषां जघन्यस्थितितया मन्तव्य इति । निरूपित एकेन्द्रियाणामुत्कृष्टो जघन्यश्च स्थितिबन्धो गाथापूर्वार्धेन । सम्प्रत्ययमेव एकेन्द्रियोत्कृष्टस्थितिबन्धो येगुणकारैः सङ्गुणितः'