________________
४१
३६ ]
शतकनामा पञ्चमः कर्मग्रन्थः ।
समुदाय दर्शनमोहनीय' वर्गः, कपायमोहनीयप्रकृतिसमुदायः कषायमोहनीयवर्गः, नोकपायमोहनीयप्रकृतिसमुदायो नोकपायमोहनीयवर्गः, नामप्रकृतिसमुदायो नामवर्गः, गोत्रप्रकृतिसमुदायो गोत्रवर्गः, अन्तरायप्रकृतिसमुदायोऽन्तरायवर्ग इति । एवंविधस्य वर्गस्य सम्बन्धी उत्कृष्टो वगत्कृष्टः स्थितिबन्धोऽभिधीयते, तस्मात् वर्गोत्कृष्टात् स्थितिबन्धाद् मिथ्यात्वस्थिन्या सागरोपमकोटी कोटीसप्ततिरूपया भागे हृने 'यद् लब्धं' यद् अवाप्तं तत् पल्योपमासङ्ख्ये यभागोनं सद् जघन्यस्थितितया भवतीति गम्यते । अत्र च वर्गोत्कृष्टादिति व्याख्यानेनैतदवसीयते-वर्गान्तर्गतानामवम स्थितिकानामपि सात वेदनीयादीनां प्रकृतीनां जघन्य स्थित्यानयनाय निजनिजवर्गस्यैवोत्कृष्टा त्रिंशत्कोटीकोट्यादिस्थितिर्विभजनीया, न तु स्वकीया पञ्चदशकोर्टा कोटचादिकेति । तथा यद्यपि पल्योपमासङ्ख्यं यभागोनमिति नोक्तं तथापि "पलियासंखंसहीण लहुबंधो" (गा०३७) इति अनन्तर गाथावयवे ने केन्द्रियाणां लब्धसप्तभागाः पल्योपमासङ्ख्ये य भागोना एव जघन्य स्थितितयाऽभिधास्यन्तेः अतोऽत्रापि जघन्यस्थितिप्रस्तावात् पल्योपमासङ्ख्ये यभागोनत्वमवसीयते । यदवादि दुर्वादिकुम्भिकुम्भस्थलदलन केसरिवरिष्ठैः शिवशर्मसूरिपादैः कर्मप्रकृतौवग्गुकोसठिणं, मिच्छत्तुको मगेण जं लद्धं ।
साणं तु जहन्ना, पल्लासंखिज्जभागूणा || ( गा० ७६ )
अस्या अक्षरगमनिका --इह ज्ञानावरणप्रकृतिसमुदायो ज्ञानावरणीयवर्गः, एवं दर्शनावरणवर्गः, वेदनीयवर्गः, दर्शनमोहनीयवर्गः, कषायमोहनीयवर्गः, नोकषायमोहनीयवर्गः, नामवर्गः, गोत्रवर्गः, अन्तरायवर्गः । एतेषां वर्गाणां या आत्मीया आत्मीया स्थितिस्त्रिंशत्सागरोपमकोटी कोट्यादिलक्षणा तस्या मिथ्यात्वस्योत्कृष्टया स्थित्या सागरोपमसप्ततिकोटी कोटी रूपया भागे हृते सति यद् लभ्यते तत् पल्योपमासङ्ख्यं यभागोनं सद् उक्तशेषाणां [ पञ्चाशीतेः ] प्रकृतीनां जघन्यस्थितेः परिमाणमवसेयम् । तथाहि--दर्शनावरण- वेदनीय वर्गयोरुत्कृष्टा स्थितिस्त्रिंशत्सागरोपमकोटीकोटीप्रमाणा, तस्या मिथ्यात्वस्थित्या सप्ततिसागरोपमकोटीकोटीप्रमाणया भागे हृते सति "शून्यं शून्येन पातयेद्" इति वचनाद् लब्धास्त्रयः सागरोपमसप्तभागा, ते पल्योपमासङ्ख्यं यभागोना निद्रापञ्चका-ऽसातवेदनीययोर्जघन्यस्थितितया मन्तव्याः । दर्शनमोहनीयवर्गस्य चोत्कृष्टा स्थितिः सागरोपमकोटाकोटीसप्ततिरूपा, तस्या मिथ्यात्वस्थित्या तावत्यैव भागे हृते लब्धाः सप्त सागरोपमसप्तभागाः, ते च पल्योपमासङ्ख्ये यभागोना मिथ्यात्वस्य जघन्यस्थितितयाऽवसेयाः । कषायमोहनीयवर्गस्य चोत्कृष्टा स्थितिश्चत्वारिंशत्सागरोपमकोटीकोट्यः, तस्या मिथ्यात्वस्थित्या भागे हृते लब्धाश्चत्वारः सागरोपमसप्तभागाः, ते च पल्योपमासङ्ख्ये य भागोनाः
१ सं० २ छा० ० वर्गः, चारित्रमोहनीयसमुदायश्चारित्रमोहनीयवर्गः, कषा० ॥
6