________________
देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः
[ गाथा ॐ । स्त्रीवेद-मनुष्यद्विकयोस्त्रयश्चतुर्दशभागाः पहै , यतः पञ्चदशानां पञ्चमे भागे त्रयः, सप्ततेश्च पञ्चमे भाग चतुर्दश लभ्यन्ते । सूक्ष्मत्रिके विकलेन्द्रियजातित्रिके च नव पश्चत्रिंशद्भागाः ५, यत एतेषामष्टादशकोटीकोट्य उत्कृष्टा स्थितिरुक्ता तस्याः सप्तत्या भागे हृते लब्धा अष्टादश सप्ततिभागाः १८,अनयोश्च भाज्य-भागहारकराश्योरुभयोरप्यर्धीकरणे सम्पन्नाः । एवमन्यत्रापि निजं निजमुत्कृष्टस्थितिकं भाज्यराशिं मिथ्यात्वस्थितिरूपं भागहारकराशिं चा/कृत्य जघन्या स्थितिर्वाच्या । तथा स्थिर-शुभ-सुभग-सुस्वरा-ऽऽदेय हास्य-रति-शुभविहायोगति-वज्रपभनाराचमंहनन-समचतुरस्रसंस्थान-सुरभिगन्ध-शुक्लवर्ण-मधुररस-मृदु-लघु-स्निग्ध-उष्णस्पशलक्षणस्य प्रकृतिसप्तदशकस्येकः सप्तभागः । शेषस्य च शुभा-ऽशुभवणादिचतुष्कस्य द्वौ सप्तभागो , केवलं वर्णादिचतुष्कं बन्धेऽविशेपितमेवाधिक्रियते इति प्रागेवोक्तम् , ततः सप्तभागद्वयमेव चतुर्णामपि सामान्येन द्रष्टव्यम् । द्वितीययोः संस्थान-संहननयोः पट पञ्चत्रिंशद्भागाः । तृतीययोः संस्थानसंहननयोः सप्त पञ्चत्रिंशद्भागाः । चतुर्थयोः संस्थान-संहननयोरष्टौ पश्चत्रिंशद्भागाः । । पञ्चमयोः संस्थान-संहननयोर्नव पश्चत्रिंशद्भागाः । शेषाणां त्रस-बादर पर्याप्त प्रत्येका-ऽगुरुलघुउपघात-पराघात-उच्छ्वासा-ऽस्थिरा--ऽशुभ-दुर्भग-दुःस्वरा-ऽनादेया-ऽयशःकीर्ति--औदारिकशरीरऔदारिकाङ्गोपाङ्ग-तिर्यग्गति-तिर्यगानुपूर्वी एकेन्द्रियजाति-पञ्चेन्द्रियजाति निर्माणा-ऽऽतप-उद्योताऽप्रशस्तविहायोगति-स्थावर-हुण्ड संस्थान-सेवार्तसंहनन-तेजस-कामण-नीचेगोत्रा-ऽरति-शोक-भयजुगुप्सा-नपुसकवेदलक्षणानां पश्चत्रिंशत्प्रकृतीनां सागरोपमस्य द्वौ सप्तभागौ ३ । इयं चासो जघन्या स्थितिरेकेन्द्रियानेवोद्दिश्य प्राप्यते, न शेषजीवानिति । तथा जघन्यस्थितिप्रस्तावादेकेन्द्रियाणामुत्कृष्टोऽपि स्थितिबन्धो वाच्यः, यथाऽयमेव जघन्यस्थितिबन्धः पल्योपमासङ्खच यभागमात्राभ्यधिक उत्कृष्टो भवतीति । तथा चोक्तम्
'जा एगिदि जहन्ना, पलियासंख्ससंजुया सा उ । तेसि जिट्ट त्ति ( पञ्चसं० गा० २६१)। इति पञ्चसङ्ग्रहाभिप्रायेण व्याख्यातम् । अथ चेदमेव गाथाधं कमप्रकृत्यभिप्रायेणान्यथा व्याख्यायते-'सेसाणं" इत्यादि । 'शेषाणाम्' अवशिष्टानां पश्चाशीतेः प्रकृतीनामित्यर्थः । "उक्कोसाउ"त्ति "सूचनात् सूत्रम्" इति न्यायाद् 'उत्कृष्टाद् ' इति सामान्योक्तावपि वर्गोत्कृष्टात् स्थितिबन्धादिति दृश्यम् । अथ कोऽयं वर्गोत्कृष्टः स्थितिबन्धः ? उच्यते-सजातीयप्रकृतीनां समुदायो वर्गः । यथा-मतिज्ञानावरणादिप्रकृतिसमुदायो ज्ञानावरणवर्गः, चक्षुर्दर्शनावरणादिप्रकृतिसमुदायो दर्शनावरणवर्गः, वेदनीयप्रकृतिसमुदायो वेदनीयवर्गः, दर्शनमोहनीयप्रकृति
१ या एकेन्द्रियाणां जघन्या पल्यासंख्यांशसंयुता सा तु । तेषां ज्येष्ठेति ॥