________________
३४-३६]
शतकनामा पञ्चमः कर्मग्रन्थः। पञ्चके-मति-श्रुता-ऽवधि-मनःपर्याय-केवलज्ञानावरणलक्षणे, "दंसेसु" त्ति दर्शनचतुष्के-चक्षुःअचक्षुः-अवधि केवलदर्शनावरणस्वभावे । कोऽर्थः ? ज्ञानावरणपञ्चका-ऽन्तरायपश्चक-दर्शनचतुष्कसंज्वलनलोभलक्षणानां पञ्चदशप्रकृतीनां जघन्यस्थितिबन्धोऽन्तमुहर्तमात्र एव, यतः संज्वलनलोभस्याऽनिवृत्तिवादरगुणस्थानके शेषचतुर्दशप्रकृतीनां सूक्ष्म सम्परायगुणस्थानकचरमसमये स्वबन्धव्यवच्छेदकालेऽन्तमुहूर्तमान स्थितिबध्यते । "ते अदृ" ति "व्याख्यानतो विशेषप्रतिपत्तिः" इति न्यायात् 'ते' मुहूर्ता घटिकाद्वयप्रमाणाः 'अष्टो' अष्टसङ्ख्या यशःकीर्तिनाम-उच्चैगोत्रयोर्जघन्यस्थितिर्भवति । "बारस य' त्ति द्वादश मुहूर्ताः, 'चः' पुनरर्थे स च भिन्नक्रमः, ततः 'साते' सातवेदनीये कर्मणीति । उक्तं च कर्मप्रकृती
'भिन्नमुहत्तं आवरणविग्घदंसणचउक्कलोहन्ते । बारस साइ मुहुत्ता, अट्ठ य जसकित्तिउच्चेसु ।। ( गा० ७६ ) इति ।। ३५॥ दो इग मासो पक्खो, संजलणतिगे पुमट्टव रिसाणि ।
सेसाणकोसाओ, मिच्छत ठिईइ ज लद्धं ॥३६॥
द्वौ मासौ एको मासः पक्षश्च जघन्या स्थितिः, क्व ? इत्याह--'संज्वलनत्रिके' क्रोध-मानमायारूपे । एतदुक्तं भवति-संज्वलनक्रोधे द्वौ मासौ जघन्या स्थितिः, संज्वलनमाने एको मासो जघन्या स्थितिः, संज्वलनमायायां पक्षः-पञ्चदशदिनात्मको जघन्या स्थितिः । “पुमट्ठवरिसाणि" त्ति पुवदेऽष्टौ वर्षाणि जघन्या स्थितिः । यतश्चतर णामप्येतासां प्रकृतीनामनिवृत्तिचादरगुणस्थाने निजनिजबन्धव्यवच्छेदसमये प्रतिपादितप्रमाणेव स्थितिबंध्यत इति । यासा द्वाविंशतः प्रकृतीनां स्वबन्धव्यवच्छेदसमये जघन्या स्थितिरन्तमुहूर्तादिका सम्भवति तासां तथैव सा प्रतिपादिता । आहारक द्विक-तीर्थकरलक्षणप्रकृतित्रयस्य तदुत्कृष्टस्थितिप्रतिपादनप्रस्ताव एव जघन्याऽप्यसावभिहिता। आयुश्चतुष्टयस्य स्वामित्वप्रस्तावे क्रिपटकस्य च जघन्यस्थितिक्ष्यते । शेषपञ्चाशीतेः प्रकृतीनां बादरपर्याप्तकेन्द्रियेष्वेव प्राप्यमाणजघन्यस्थितिबन्धानां जघन्यस्थितिनिरूपणार्थ करणमाह-"सेसाणुक्कोसाओ" इत्यादि गाथार्धम् । 'शेषाणां' भणितवक्ष्यमाणपश्चत्रिंशत्प्रकृतिभ्योऽवशिष्टानां निद्रापञ्चकादीनां पञ्चाशीतिप्रकृतीनाम् ‘उत्कृष्टात्' सर्वप्रकृतीनां निजनिजोत्कृष्टस्थितिबन्धाद् मिथ्यात्वस्थित्या' सप्ततिकोटीकोटीरूपया भागे हृते 'यद् लब्धं' यद् अवाप्तं सा जघन्यस्थितिः । एवं च सति निद्रापञ्चकेऽसाते च सागरोपमस्य] त्रयः सप्तभागाः 3 । मिथ्यात्वस्य सागरोपमम् । संज्वलनवर्जद्वादशकपायाणां चत्वारः सप्तभागाः
१ भिन्नमुहूर्त्तमावरणविघ्नदर्शनचतुष्कलोमान्ते । द्वादश साते मुहूर्ता अष्टौ च यशःकीत्युच्चैर्गोत्रयोः ॥ २ सं० १-२ त० म० ०त्मका ॥