________________
देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः
[ गाथा
मप्यायुषां परभवसम्बन्धिनामुत्कृष्टा स्थितिः पत्योपमासङ्ख्ये यभागमात्रा पूर्वकोटिविभागाधिका भवति, पूर्वको टित्रिभागश्चाबाधा, अबाधाहीनश्च कर्मदालक निषेकः । वादिकर्मकृतौ श्रीमदाराध्यपादै:--
३८
'आउच उक्कुक्कोर्स, पल्लासंखिज्जभाग अमसु । ( गा० ७४ ) इति । आयुषामुत्कृष्टां स्थितिमभिधाय तेषामेवात्कृष्टामबाधामाह -- ' ' निरुवकमाण छमासा अबाह” त्ति ‘निरुपक्रमाणी “सत्यभामा" इति न्यायात् निरुपक्रमायुषां देव-नारकाणामसङ्ख्ये यवर्षायुषां नर-तिरवां च भवान्तरप्रायोग्यायुर्वन्धकारिणां ' षण्मासाः ' पण्मासप्रमाणा 'अबाधा' व्यावर्णितस्वभावा भवतीति शेषः, यतस्ते पण्मासावशेषायुष एवोत्तरभवप्रायोग्यमायुर्वध्नन्ति । यदाह भाष्यपोयूषपयोधि :
"देवा नेरइया बा, असंखवासाज्या य तिरिमणुया |
छम्मासवसेसाऊ, परभवियं आउ धंति || (जिनम० सङ्ग्र० गा० ३०७ ) इति यथोक्त एवाबाधाकालः । केचित्तु मन्यन्ते - युगलधार्मिकाः पत्योपमासङ्ख्ये यभागे निजायुषोऽवशिष्यमाणे परभवायुष्कं बध्नन्ति तन्मतेनावाधाऽपि युगलधार्मिकान् उद्दिश्य पल्योपमासङ्ख्यं यभागप्रमाणैवेति मन्तव्यम् | यदुक्तम्
पलियासंखिज्जसं, जुगधम्मीणं वयंतऽन्ने । (पञ्चसं० गा० २४८) इति ।
" सेण भवतंसा" त्ति 'शेषाणां' सङ्घये यवर्षायुषां सोपक्रम - निरुपक्रमायुषां नर- तिरश्री भवस्य स्वकीयजन्मनस्त्र्यंशः - त्रिभागो भवत्र्यंशोऽबाधेत्यत्रापि सम्बन्धनीयम्, यतस्ते निजजन्मनः त्रिभाग एवावशिष्टे " " सेसा पुणो तिभाए" (जिनभ० संग्र० गा० ३०६ ) इति वचनाद् उत्कृष्टतः परभवप्रायोग्यमार्वन्धं विदधतीति ||३४||
प्रतिपादिता सर्वोत्तर कृतीनामबाधान्विता उत्कृष्टा स्थितिः । इदानीं तासामेव जघन्यां स्थितिं निरूपयितुकाम आह
संजलगलोह पणविग्घनाणदं बेस I
लहुठि भिन्नमुत्तं ते अट्ठ जसुच्चे बारस य साए ॥ ३५ ॥ 'लघुस्थितिबन्धः' जघन्यस्थितिबन्धो भिन्नमुहूर्त भवति, क्व १ इत्याह-संज्वलनलोभे प्रतीते, 'पण' शब्दस्य प्रत्येकं सम्बन्धाद् विघ्नपञ्चके-दान-लाभ- भोग-उपभोग- वीर्यान्तरायरूपे, ज्ञानावरण
१ आयुश्च तुष्कमुत्कृष्टं पल्यासंख्येयमागोऽमनस्केषु ॥ २ देवा नैरयिका वा असंख्य वर्षायुष्काच तिर्यङ् - मनुजाः । षण्मासावशेषायुषः पारमविकं आयुर्वघ्नन्ति ॥ ३ पल्यासख्येयांशं युग्मधर्मिणां वदन्त्यन्ये ॥ ४ शेषाः पुनस्त्रिभागे ॥