________________
३३-३४
शतकनामा पञ्चमः कर्मग्रन्थः। "नरतिरियाणाउ पल्लतिगं" ति नर-तिरश्चामायुपोः 'पल्यत्रिक' पल्योपमत्रिकमुत्कृष्टा स्थितिरिति । यद्यपि मूलप्रकृत्यु कृष्टस्थितिभणनप्रस्तावे देव-नारकायुपोस्त्रयस्त्रिंशत्सागरोपमलक्षणव स्थितिरुक्ता, नरतिर्यगायुपोस्तु पल्योपमत्रयप्रमाणव, तथापि पूर्वकोटित्रिभागाधिकेवासी सर्वा बध्यते इत्यवसेयम् । नन्वेवं तर्हि सूत्रे पूर्वकाटित्रिभागाधिकत्वं कस्मान्नोक्तम् ? सत्यम् , असो पूर्वकोटित्रिभागोऽवाधारूपतयैवापयाति न पुनरुदयमायाति, अतो यावती स्थितिरायुयो वेद्यते तावत्प्रमाणवावाधारहिता सूत्रे उपात्तत्यदोष इति ।।३३।।
इगविगल पुवकोडिं, पलियासखस आउचउ अमणा । निस्वकमाण छमासा, अबाह सेसाण भवतसो ॥३४॥ एकेन्द्रिया विकलेन्द्रियाश्च पूर्वाणि--आगमप्रतीतानि, तद्यथा--
'पुवस्स उ परिमाणं, सयरिं खलु हुँति कोडि लक्खाओ ।
छप्पन्नं च सहस्सा, बोधव्या वासकोडीणं ।। (जिनभ० सम० गा० ३०२) तेषां पूर्वाणां कोटी पूर्वकोटी तां पूर्वकोटी यावदायुष उत्कृष्टां स्थिति बध्नन्ति, न पूर्वकोटयभ्यधिकामपीति । आयुःशब्दश्च "आउचउ अमणा" इति पदाद् योजनीयः । इदमत्र हृदयम्-एकेन्द्रिया विकलेन्द्रियाश्चोत्कृष्टतोऽपि पूर्वकोट्यायुष्केष्वेव नर-तिर्यक्षु समुत्पद्यन्ते, न नारकदेवा-ऽसङ्ख्य यवर्षायुष्कतिर्यङ्-मनुष्येषु, अत एकेन्द्रिय-विकलेन्द्रियाणामुत्कृष्टायुर्वन्धः पूर्वकोटी स्वस्वभव त्रिभागाभ्यधिका वेदितव्या । एषां स्वस्वभवत्रिभागोऽराधा, अबाधाहीनश्च कर्मदलिकनिषेकः । यदुक्तं कर्मप्रकृतौ--
सेसाण पुवकोडी, साउतिभागो अवाहा सिं ।। (गा० ७४) अत्र टीका-'शेषाणां च' एकेन्द्रिय-द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रियाणां पर्याप्ता-ऽपर्याप्तानाम् असंज्ञिपञ्चेन्द्रिय-संज्ञिपञ्चेन्द्रियाणां चापर्याप्तानामायुप उत्कृष्ट स्थितिबन्धकानां परभवायुप उत्कृष्टस्थितिबन्धः पूर्वकोटी स्वस्वभवत्रिभागाभ्य'धिका वेदितव्या। आयुप उत्कृष्टस्वभवत्रिभागोऽवाधाकालः, अबाधाकालहीनश्च कर्मदलिकनिषेक इति ।
"पलियासंखंस आउचउ अमग" ति 'अमनसः' मनोयोगरहिताः, असंज्ञिनः पर्याप्ता इत्यर्थः, 'पल्योपमासङ्ख्या शं' पल्योपमासङ्घय यभागं आयुपां चतुष्कं बध्नन्ति, विभक्तिलोपश्च प्राकृतत्वात् । किमुक्तं भवति ?--असंज्ञिपञ्चेन्द्रियेषु पर्याप्तेषु आयुरुत्कृष्टस्थितिबन्धकेषु चतुर्णा
१ पूर्वस्य तु प्रमाणं सप्ततिः खलु भवन्ति कोटिलक्षाणि । षट्पञ्चाशच सहस्राणि बोद्धव्यानि वर्षकोटीनाम् ।। २ सं० १ ०भ्यधिको वेदितव्यः ॥ ३ म० छा० ०षश्च उत्कृ०॥