________________
__देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपैतः
[गाथा सङ्घय यगुणहीनो जघन्यस्थितिबन्धः, सागरोपमान्तःकोटीकोटीप्रमाण इति तात्पर्यम् । तथेहाप्याहारकस्य ये बन्धनसङ्घातास्तेषामपि स्वशरीरस्थितिप्रमाणे व स्थितिविज्ञेयेति । ननु तीर्थकर नामकर्म तीर्थकरभवादाक् तृतीयभव एव बध्यते । यदागमः
'बज्झइ तं तु भगवओ, तइयभवोसक ताणं । (आव० नि० गा० १८३)। तत कथं जघन्यतोऽप्यन्तःसागरोपमकोटीकोटीप्रमाणा तस्य स्थितिरुपपद्यते ? तदयुक्तम् , अभिप्रायापरिज्ञानात् , "वज्झइ तं तु" इत्यादिकं निकाचनापेक्षयोक्तम् , इतरथा तु तृतीयभवादक्तिरामपि बध्यते ।
___ यदाहुः संशयशतशाखिशातनानिशिताकुण्टकुठारकल्पाः श्रीजिन भद्रगणिक्षमाश्रमणपादाः विशेषणवत्याम्--
कोडाकोडी अयरोवमाण तित्थयरनामकम्मठिई ।
बज्झइ य तं अणंतर भवम्मि तइम्मि निद्दिट्ठ ॥ (गा० ७८) ततः कथमेतत् परस्परं युज्यते ? अत्रोत्तरम्--
जं बज्झइ त्ति भणियं, निकाइयं तं तु तत्थ नियमोऽयं ।
तदवंझफलं नियमा, भयणा अनिकाइयावत्थे ।। (गा. ८०) आह यदि तीर्थकरनाम्नो जघन्याऽपि स्थितिरन्तःसागरोपमकोटीकोटीप्रमाणा तर्हि तावत्याः स्थितेस्तियग्भवभ्रमणमन्तरेण पूरयितुमशक्यत्वात् तिर्यग्गतावपि तीर्थकरनामसत्कर्मा जन्तुः कियन्तं कालं यावद् भवेत् १ तथा च सति आगमविरोधः, आगमे तिर्यग्गतो तीर्थकरनामसत्कर्मा सन् प्रतिषिध्यते । अत्रोच्यते--निकाचितस्यैव तीर्थकरनामकर्मणस्तिर्यग्गतौ सतः प्रतिषेधात् । उक्तं च--
जमिह निकाइयतित्थं, तिरियभवे तं निसेहियं संतं ।
इयरम्मि नत्थि दोसो, उवट्टणोवट्टणासज्झे ।। (पञ्चसं० गा० २५१) । अस्या अक्षरगमनिका--'इह' अस्मिन् प्रवचने यत् तीर्थकरनामकर्म 'निकाचितम्' अवश्यंवेयतया व्यवस्थापितं तदेव स्वरूपेण 'सई' विद्यमानं तिर्यग्गतो निषिद्धम् । 'इतरस्मिन् पुनः' अनिकाचिते उद्वर्तना-ऽपवर्तनासाध्ये तिर्यग्गतावपि विद्यमाने न कश्चिद्दोपः, यतस्तत् प्रभूतस्थितिकमप्यपवर्तनाकरणेन लघुस्थितिकं क्रियते, 'उद्वर्तनया वा तद् अन्यप्रकृतित्वेनावस्थाप्यत इति ॥
५ बध्यते तत्तु मगवतस्तृतीयमवेऽवध्वष्कयित्वा ।। २ कोटाकोटी अतरोपमाणां तीर्थकरनामकमस्थितिः । वध्यते च तदनन्तरे भवे तृतीये निर्दिष्टम् ।। ३ यद् बध्यत इति मणितं निकाचितं तत्तु तत्र नियमोऽयम् । तदवन्ध्यफलं नियमाद् मजनाऽनिकाचितावस्थे ॥ ४ सं० १-२ छा० त० म० उद्वलन या ।।