________________
३१-३३]
शतकनामा पञ्चमः कर्मग्रन्थः ।
मृदु-लघु-स्निग्ध-उष्ण-सुरभिगन्ध-श्वेतवर्ण-मधुररसलक्षणानां सप्तानां प्रकृतीनां वर्षसहस्रमेकमबाधा, वाहन कर्मदलिकनिषेकः । हारिद्रवर्णाऽम्लरसयोः सार्धद्वादश वर्षशतान्यवाधा, अवाधाहीनश्च कर्मदलिकनिषेकः । लोहितवर्ण- कषायरसयोः पञ्चदश वर्षशतान्यबाधा, अबाधाहीनश्च कर्मदलिकनिषेकः । नीलवर्ण - कटुकरसयोः सार्धसप्तदश वर्षशतान्यवाधा, अवाधाहीनश्च कर्मदलिकनिषेकः । कृष्णवर्ण-तिक्तरस योर्वर्षसहस्रद्वयमबाधा, अवाधाहीनश्च कर्मदलिकनिषेकः । तथा प्रशस्तविहायोगति-उच्चैर्गोत्र - सुरगति - सुरानुपूर्वी स्थिर - शुभ-सुभग- सुस्वरा-ऽऽदेय-यशःकीर्ति-पुरुषवेद-हास्य-रतिलक्षणानां त्रयोदशप्रकृतीनामेकं वर्षसहस्रमबाधा, अबाधाहीनश्च कर्मदलिकनिषेकः । मिथ्यात्वस्य सप्त वर्षसहस्राण्यवाधा, अबाधाहीनश्च कर्मदलिकनिषेकः । मनुष्यगति-मनुष्यानुपूर्वी स्त्रीवेद- सातवेदनीयलक्षणानां चतसृणां प्रकृतीनां पञ्चदश वर्षशतान्यबाधा, अबाधाहीनश्च कर्मदलिकनिषेकः । तथा भय-जुगुप्सा ऽरति-शोक- वैक्रियशरीर-क्रियाङ्गीपाङ्ग - तिर्यग्गति तिर्यगानुपूर्वी औदारिकशरीर औदारिकाङ्गोपाङ्ग-नरकगति नरकानुपूर्वी नीचे गोत्रतैजस-कार्मणा-ऽगुरुलघु--निर्माण- उपघाता ऽस्थिरा --ऽशुभ- दुर्भग- दुःस्वरा-ऽनादेयाऽयशः कीर्तित्रस-बादर-पर्याप्ति-प्रत्येक-स्थावर-- एकेन्द्रियजाति - पञ्चेन्द्रियजाति नपुंसक वेदा-प्रशस्तविहायोगति - उच्छ्वास उद्योताऽऽतप-पराघात गुरु- कर्कश रुक्ष-शीत-दुरभिगन्धलक्षणानां द्विचत्वारिंशस्प्रकृतीनां द्वे वर्षसहस्र अवाधा, अवाधाहीनश्च कर्मदलिकनिषेक इति ॥ ३२ ॥
३५
गुरु को डिकोडितो, तित्थाहाराण भिन्नमुहु बाहा | हुठि संखगुणणा, नरतिरियाणाउ पल्लतिगं ॥ ३३ ॥
स्थितिशब्दस्योत्तरपदस्थ स्येहापि सम्बन्धाद् 'गुरुः' गरीयसी - उत्कृष्टा स्थितिः सागरोपमाणां कोटीकोट्या अन्तर-मध्ये "तित्थाहाराण" त्ति तीर्थकरनाम: -ऽऽहारकशरीरा -ऽऽहाराकाङ्गोपाङ्गलक्षणानां तिसृणां प्रकृतीनां भवतीति शेषः । किमुक्तं भवति १ - तीर्थकरनाम्न आहारकद्विकस्य च सागरोपमाणामन्तःकोटीकोटीप्रमाण एवोत्कृष्टः स्थितिबन्धकालो भवति नोपरिष्टादिति । "भिन्नमुहु बाह" त्ति प्राकृतत्वादकारलोपे भिन्नमुहूर्तम्- अन्तर्भुहूर्तमात्रमेव कालम् 'अबाधा' अनुदयात्रस्था उत्कृष्टा, जघन्याऽप्यन्तमुहूर्तमात्रैव ततः परं दलिकरचनायाः सद्भावेनावश्यं प्रदेशोदयस्य सम्भवादिति । केचित् " तीर्थकर नामकर्म अन्तर्मुहूर्तादूर्ध्वं कस्यचित् प्रदेशत उदेति, तदुदये चाज्ञैश्वर्यादय ऋद्धिविशेषा अन्यजीवेभ्यो विशिष्टतरास्तस्य सम्भवन्तीति सम्भावयामः" इति व्याचक्षते । उत्कृष्टा तीर्थकरा - ऽऽहारकयोः स्थितिरुक्ता । अथैतयोरेव जघन्यां स्थितिमाह-“लहुठिइ संखगुरणूण” त्ति लघुस्थितिस्तीर्थंकरा-ऽऽहारकयोः सङ्घयेन सङ्ख्यातकाललक्षणेन गुणेनगुणकारेण ऊना-ह -हीना सङ्ख्यगुणोना, उत्कृष्टस्थितिबन्धकाल एव सागरोपमान्तः कोटीकोटीरूपः