________________
देवेन्द्रसूरिविरचिनः स्वोपज्ञटीकोपैतः
[गाथा भये 'कुत्सायां' जुगुप्सायाम् अरति-शोके, द्विकशब्दस्य प्रत्येकं सम्बन्धाद् वैक्रियद्विकेवैक्रियशरीर-चैक्रियाङ्गोपाङ्गरूपे, तिर्यद्विके-तिर्यग्गति-तिर्यगानुपूर्वीलक्षणे, औदारिकद्विके
औदारिकशरीर-औदारिकाङ्गोपाङ्गाख्ये, नरकद्विके-नरकगति-नरकानुपूर्वी स्वरूपे, नीचेगोत्र 'तेजसपञ्चके' तेजस--कार्मणा-ऽगुरुलघु--निर्माण-उपघाताभिधे, अस्थिरपट्के-अस्थिरा-ऽशुभ-दुर्भगदुःस्वरा-ऽनादेया-ऽयशःकीर्तिलक्षणे, बसचतुष्क-त्रस-बादर-पर्याप्त-प्रत्येकरूपे, स्थावरे "इग" त्ति एकेन्द्रियजातो पञ्चेन्द्रियजातो "नपु" ति नपुसकवेदे 'कुखगतो' अप्रशस्तविहायोगतो, "सासचउ" त्ति ‘उच्छ्वासचतुष्के' उच्छयास-उद्योता-ऽऽतप-पराघातलक्षणे, गुरु-कर्कश-रूक्ष-शीतेषु अशुभस्पर्शेषु 'दुर्गन्धे' दुरभिगन्धे चेत्येतासु द्विचत्वारिंशत्सङ्ख्यासु प्रकृतिषु विंशतिसागरोपमकोटीकोटय उत्कृष्टा स्थितिर्भवति । तथाऽऽहारकवर्जितानामोदारिकादिशरीराणां ये बन्धन-सङ्घातास्तेषामपि स्थितिः स्वशरीरस्थितितुल्यैव विज्ञेया, तेन बन्धनादीनामपि विंशतिः सागरोपमकोटीकोट्य उत्कृष्टा स्थितिरिति दृश्यम् । तथा चोक्तं पञ्चसङ्ग्रहटीकायाम्
"स्थिति-उदय-बन्धकालाः सङ्घातन-बन्धनानां स्वशरीरतुल्या ज्ञेयाः ।" तदत्र स्थितितुल्यतया प्रयोजनमिति । सम्प्रत्युक्तोत्तरप्रकृतीनामेवोत्कृष्टाऽवाधामाह--"एवइयाबाह वाससय" ति लिङ्गव्यत्ययाद् एतावन्ति वर्षशतानि 'अबाधा' कर्मणः प्रदेश-विपाकाभ्यामनुदयकाल इत्यक्षरघटना । भावार्थस्त्वयम्--यासां प्रकृतीनां यावत्यः कोटीकोटयः स्थितिरुक्ता तासां तावन्ति वर्षशतान्यबाधेति, तावन्मात्रेषु समयेषु न वेद्यदलिकनिक्षेपं करोतीति यावत् । तद्यथा--पश्चानां विघ्नप्रकृतीनां पश्चानां ज्ञानावरणप्रकृतीनां नवानां दर्शनावरणप्रकृतीनामसातवेदनीयस्य त्रिंशत्सागरोपमकोटीकोटय उत्कृष्टा स्थितिरुक्ता, तस्या अबाधाकालोऽप्युत्कृष्टस्त्रिंशद्वर्षशतानि वेदितव्यः । यथा--दानान्तरायमुत्कृष्टस्थितिकं बद्धं सत् त्रिंशद्वर्षशतानि यावन्न काश्चिदपि स्वोदयतो जीवस्य बाधामुत्पादयति, अबाधाहीनश्च कर्मदलिकनिषेकः । एवं सर्वप्रकृतिष्वपि वाच्यम् । यथा--सूक्ष्मत्रिके विकलत्रिके चाऽष्टादश वर्षशतान्यबाधा, अबाधाहीनश्च कर्मदलिकनिषेकः । समचतुरस्त्रसंस्थान-वनऋषभनाराचसंहननयोर्दश वर्षशतान्यबाधा, अबाधाहीनश्च कर्मदलिकनिपेकः । न्यग्रोधपरिमण्डलसंस्थान-ऋषभनाराचसंहननयो-दश वर्षशतान्यबाधा, अबाधाहीनश्च कर्मदलिकनिषेकः । सादिसंस्थान-नाराचसंहननयोश्चतुर्दश वर्षशतान्यबाधा, अबाधाहीनश्च कर्मदलिकनिषेकः । कुब्जसंस्थाना-ऽर्धनाराचसंहननयोः षोडश वर्षशतान्यबाधा, अबाधाहीनश्च कर्मदलिकनिषेकः । वामनसंस्थान-कीलिकासंहननयोरष्टादश वर्पशतान्यवाधा, अबाधाहीनश्च कर्भदलिकनिषेकः । हुण्डसंस्थान-सेवार्तसंहननयोविंशतिवर्षशतान्यबाधा, अबाधाहीनश्च कर्मदलिकनिषेकः । षोडशसु कषायेषु चत्वारि वर्षसहस्राण्यबाधा, अबाधाहीनश्च कर्मदलिकनिषेकः ।