________________
२८-३२]
शतकनामा पञ्चमः कर्मग्रन्थः । कोटय उत्कृष्ट। स्थितिः, कुब्जसंस्थाना-ऽर्धनाराचसंहननयोः पोडश सागरोपमकोटीकोटय उत्कृष्टा स्थितिः, वामन संस्थान-कीलिकासंहननयोरष्टादश सागरोपमकोटीकोट्य उत्कृष्टा स्थितिः, हुण्ड संस्थान-सेवार्तसंहननयोविंशतिः सागरोपमकोटीकोटय उत्कृष्टा स्थितिरिति ॥२८॥
चालीस कसाएम, मिउलहनिदधुण्हसुगहिसियमहुरे ।
दस दासढ ममहिया, ते हालिदंबिलाईणं ॥२९॥ चत्वारिंशत् सागरोपमकोटीकोटयः 'कपायेषु' अनन्तानुबन्धि चतुष्का-ऽप्रत्याख्यानावरणचतुक-प्रत्याख्यानावरणचतुष्क-संज्वलनचतुष्कलक्षणेषु पोड शसु उत्कृष्टा स्थितिः । मृदु-लघु-स्निग्धउष्णानां चतुर्णा शुभाना स्पर्शानां सुरभिगन्धस्य "सिय" त्ति सितवर्णस्य मधुररसस्य च "दम" ति दश सागरोपमकोटाकोटय उत्कृष्टा स्थितिः । तथा त एव दश द्विसाधसमधिकाः सन्नो हारिद्रा-ऽम्लादीनां पश्चानुपूर्व्या उत्कृष्टा स्थितिवेदितव्या । इयमत्र भावना-हारिद्रवर्णस्याऽम्लरसस्य चार्धत्रयोदश सागरोपमकोटाकोटय उत्कृष्टा स्थितिः । लोहितवर्ण कषायरसयोः पञ्चदश सागरोपमकोटाकोटय उत्कृष्टा स्थितिः । नीलवर्ण-कटुकरसयोः सार्धसप्तदश सागरो. पमकोटाकोटय उत्कृष्टा स्थितिः । कृष्णवर्ण-तिक्तरसयोर्विंशतिः सागरोपमकोटाकोटय उत्कृष्टा स्थितिः । यद्यपि वर्ण-गन्ध-रस-स्पर्शचतुष्कमेवाविवक्षितभेदं बन्धेऽधिक्रियते, भेदरहितस्यैव च तस्य कमप्रकृत्यादिषु विंशतिसागरोपमकोटाकोटीरूपा स्थितिनिरूपिता, तथापि वर्णादिचतुष्कभेदानां विंशतेरपि पृथक पृथक स्थितिः पञ्चसङ्ग्रहे अभिहिता अतोऽस्माभिरपि तथैवाभिहिता, बन्धं तु प्रतीत्य वर्णादिचतुष्कमेवाविशेषितं गणनीयमिति ॥२६।।
दस सहविहगइउच्चे, सरदुग थिरछक पुरिसरहहासे । मिच्छे सत्तरि मणुदुग, इत्थी साएसु पन्नरस ॥३०॥
दश सागरोपमकोटीकोट्य उत्कृष्टा स्थितिर्भवति । क ? इत्याह-'शुभविहायोगतो' प्रशस्तविहायोगतौ उच्चैोत्रे 'सुरद्विके' सुरगति सुरानुपूर्वीलक्षणे 'स्थिरषट्के' स्थिर-शुभ-सुभगसुस्वरा-ऽऽदेय-यशःकीर्तिसंज्ञिते 'पुरुषे' पुरुषवेदे रतौ हास्ये । तथा मिथ्यात्वे सप्ततिः सागरोपमकोटीकोटय उत्कृष्टा स्थितिः। तथा 'मनुजद्विके' मनुजगति-मनुजानुपूर्वीस्वरूपे स्त्रीवेदे "माते' सातवेदनीये पञ्चदश सागरोपमकोटीकोख्य उत्कृष्टा स्थितिः ॥३०॥
भय कुच्छ अरइसोए, विउवितिरिउरलनरयदुग नीए । तेयपण अथिरछक्के, तसचर थावर इग पगिंदी ॥३॥ नपु कुम्वगइ सासचऊ, गुरुकवरवडरुक्खसीय दुग्गंधे । वीस कोडाकोडी, एवढ्याषाह वाससया ॥३२॥