________________
देवेन्द्रसूरिविरचितः स्वोपज्ञटोकोपेतः
कर्मनिषेो भवतीति भावना | स्थापना -
[ गाथा
। मोहनीयस्य सप्त वर्षसहस्राण्यवाचा, अवा
000
0000
धोना च कर्मस्थितिः कर्मनिषेको निगदितलक्षणो द्रष्टव्यः । नाम - गोत्रयो वर्षसहस्र अबाधा, अवाधोना च कर्मस्थितिः कर्मनिषेकः | आयुष्कस्य तु नरकायुः सुरायुर्लक्षणस्योत्कृष्टा स्थितिस्त्रयत्रिंशदतराणि पूर्वकोटी त्रिभागोऽबाधा, अबाधोना च कर्मस्थितिः कर्मनिषेकः अत्र च सूत्रेऽबाधां प्रपात्य "निरयसुराउम्मि तित्तीसा" ( गा० २६ ) इति निषेककाल एवोक्तः । अत एव श्रीशिवशर्मसूरिपादैः शतके
"तितीसुदही आउम्मि केवला होड़ एवमुकोसा । ( गा० ५३ )
इत्यत्र केवलाऽबाधारहितेत्युक्तम् । तथा मूलप्रकृतिस्थितिबन्ध प्रस्तावेऽपि "निरयसुराउम्म तित्तीसा ” ( गा० २३ ) इति यदुत्तरप्रकृतिस्थितिप्रतिपादनं तद् ग्रन्थलाघवार्थमिति परिभावनीयम् । जघन्या त्वबाधा सर्वानामप्यन्तमुहूर्तात्मकेति ॥२७॥
प्ररूपिता मूलप्रकृतीनामुत्कृष्टेतरभेदा स्थितिः । साम्प्रतमुत्तरप्रकृतीनामुत्कृष्टां स्थिति प्रतिपादयन्नाह—
विग्धावरण अघाए, तीसं अट्ठार सुमविगलनिगे । पढमागवणे, दस दसुवरिमेसु दुगवुढी ||२८||
"नपु कुखाइ सासचऊ " ( गा० ३२ ) इति गाथोक्तकोटाकोटी शब्दस्य सर्वत्र सम्बन्धाद् एवं प्रयोजनीयम् - विघ्नानि च दान- लाभ- भोग-उपभोग-वीर्यान्तरायाख्यानि पञ्च, आवरणानि च - ज्ञानावरणपश्चक-दर्शनावरणनवकलक्षणानि चतुर्दश, असातं च- असातावेदनीयं समाहारद्वन्द्वे विघ्नावरणास ते । विघ्नेषु पञ्चसु ज्ञानावरणेषु पञ्चसु दर्शनावरणेषु नवसु असातवेदनीये च त्रिंशत्कोटीकोटय उत्कृष्टा स्थितिः सागरोपमाणामिति सर्वत्र योज्यम् । अष्टादश कोटीको उत्कृष्टा स्थितिर्भवति, क्व १ इत्याह- त्रिकशब्दस्य प्रत्येकं सम्बन्धात् 'सूक्ष्मत्रिके' सूक्ष्माऽपर्याप्तक - साधारणरूपे 'विकलत्रिके' द्वीन्द्रिय-त्रीन्द्रिय- चतुरिन्द्रियलक्षणे तथा प्रथमशब्दस्य प्रत्येकं योगात् 'प्रथमाकृतौ' प्रथमसंस्था ने समचतुरस्रनामनि 'प्रथम संहनने' वज्रऋषभनाराचाभिधे दश दश कोटीकोटय उत्कृष्टा स्थितिर्भवति । " उवरिमेसु दुगवुड्ढि " ति 'उपरितनेषु' न्यग्रोधपरिमण्डलादिसंस्थानेषु ऋषभनाराचादिसंहननेषु च 'द्विकवृद्धि:' सागरोपमकोटाकोटी - दशकोपरि द्विकवृद्धिर्द्रष्टव्या । तद्यथा - न्यग्रोधपरिमण्डलसंस्थान-ऋभनाराच संहननयोर्द्वादश सागरोपमकोटीकोटय उत्कृष्टा स्थितिः, सादिसंस्थान- नाराचसंहननयोचतुर्दश सागरोपमकोटी
१ त्रयस्त्रिंशदधय आयुषि केवला भवत्येवमुत्कृष्टा ॥