________________
२६-२७ ]
शतकनामा पञ्चमः कर्मग्रन्थः । त्वादिहोत्कृष्टा स्थितिर्लभ्यते । ततोऽयमर्थः--नाम कर्मणि गोत्रे च उत्कृष्टा स्थितिविंशतिकोटीकोटयः सागरोपमाणाम् । सप्ततिकोटीकोटयः सागरोपमाणां 'मोहे' मोहनीये । 'इतरेषु' आयुपो भणिप्यमाणत्वेन भणितोद्धरितेषु ज्ञानावरण-दर्शनावरण-वेदनीया-ऽन्तरायलक्षणेषु चतुः कर्मसु त्रिंशकोटीकोटयः सागरोपमाणां प्रत्येकमुत्कृष्टा स्थितिर्भवति । आयुःशब्दस्य प्रत्येकं सम्बन्धात् 'निरय' त्ति निरया युषि सुरायुषि चोत्कृष्टा स्थितिस्त्रयस्त्रिंशत् 'उदधयः' सागरोपमाणि भवन्तीति ॥२६।।
मुत्तु अकसायटिइं, घार मुहुत्ता जहण्ण वेयणिए ।
अहऽट नामगोएसु सेसएसु मुहुनंतो । २७|| इह वेदनीयकर्मणो हि स्थितिद्विधा सम्भवति-अकपायिणः प्रतीत्य सकपायिणश्च । तवाकयायिणो वेदनीयस्थ स्थितिमिमयस्थितिका, यतस्तत्कर्म प्रथमसमये बद्धं द्वितीयसमये वेदितं तृतीयसमयेऽकर्मतामनुभवति सा चेह नाधिक्रियते, सकपारिस्थितिबन्धस्यैवेहाधिकृतत्वात् । अत उक्तम्-'मुक्त्वा' त्यक्त्वा अकपायिणाम् उपशान्तमोह-क्षीणमोह-सयोगिकेवलिना जघन्यां वेदनीयस्थितिम् । तर्हि सकपायिणां जघन्या किंप्रमाणा ? इत्याह-'द्वादश मुहूर्ताः' चतुर्विंशतिघटिकाः 'जघन्या' लघीयसी 'वेदनीये' तृतीये कर्मणि स्थितिर्भवतीति । “अदुऽट्ठ नामगोएसुत्ति मुहूर्तशब्दस्यात्रापि सम्बन्धात् प्रत्येकमष्टावष्टो मुहर्ता नाम-गोत्रयोर्जघन्या स्थितिर्भवति । 'शेपेषु' भणितोद्धरितेषु ज्ञानावरण-दर्शनावरण-मोहनीया-ऽऽयुः-अन्तरायलक्षणेषु पञ्चसु कर्मसु "मुहुत्तंतो" त्ति मीयत इति मुहूतः मुहुरियर्तीति वा मुहूर्तः, पृषोदरादित्वादिष्टरूपसिद्धिः, घटिकाद्वयप्रमाणः कालः, मुहूर्तस्यान्तर-मध्यं मुहूर्तान्तः, अन्तमुहूर्तप्रमाणा जघन्या स्थितिभवति । इह च "सेसएसु" इत्यत्र ककारः स्वार्थिक इति । तथेहाबाधाकालः कर्षणोऽनुदयलक्षणो य उत्तराः प्रकृतीरुद्दिश्य “एवइयाबाह वाससया" (गा० ३२) इति गाथावयवेन वश्यते स एव तदनुसारतो मूलप्रकृतिष्वपि द्रष्टव्यः । तत्र ज्ञानावरण-दर्शनावरण-वेदनीया-ऽन्तरायाणां त्रीणि वर्ष सहस्राणि अबाधा द्रष्टव्या, बद्धमपीथमेतत् कर्म वर्षसहस्रवयं यावद् विपाकोश्यलक्षणां बाधां न करोतीत्यर्थः । तया च वर्षसहस्रत्रयलक्षणयाऽबाधया ऊना-हीना कर्मस्थितिः कर्मनिषको द्रष्टव्यः। निपेको नाम-प्रथमसमये बहु द्वितीयसमये हीनं तृतीयसमये हीनतरं ततो हीनतमं कर्मदलिक रच्यते यत्र स एवम्भूतः कर्षदलिकरचनाविशेप उच्यते । अबाधां विहाय तत ऊन वेदनार्थ
१ अम्मत्याचवर्तियु समत्रेषु पुस्तकादशेषु “कर्मणि उत्कृष्टास्थितिवशनिकोटि कोटयः सागरोपमःणाम , तथा गोत्रेऽपि उत्कृष्टा स्थितिविशतिकोटीकोटयः सागरोपमाणाम' इत्येवरूपः पाठः॥२ अस्मत्याश्ववतिनीषु सप्तस्वपि प्रतियु "युषि उत्कृष्टा स्थितिस्त्रयस्त्रिंशद् 'उदधयः' सागरोपमाणि सुरायुषि चोत्कृष्टा स्थितित्यस्त्रिंशद् 'उदधयः' सागरोपमाणि भवन्तीति'' इत्येवंरूपः पाठः॥ ३ सं० १-२ छा० त० मात्र एवना