________________
देवेन्द्रसूरिविरचितः म्वोपज्ञटीकोपेतः [ गाथा ___ उक्ता नामकर्माश्रित्य भूयस्कारादिबन्धाः । साम्प्रतं शेपकर्माण्याश्रित्य तानाह- "तेरेसु ठाणमिक्किवक" ति 'शेपेषु' भणितो रितेपु-ज्ञानावरण वेदनीया ऽऽयुः-गोत्रा-ऽन्तरायलक्षणेषु पञ्चसु कर्मसु 'स्थान' बन्धस्थानमेवे कमेव भवति । तत्राद्यकर्मणि मतिज्ञानावरणाद्युत्तरप्रकृतिपञ्चकस्य समुदितमेव के बन्धस्थानं मिथ्यादृष्टेरारभ्य सूक्ष्मसम्परायं यावद् भवति, एवमन्तरायपञ्चकस्यापि वाच्यम् । वेदनीयस्याप्येकमेव बन्धस्थानं सातमसातं वा । आयुपश्चतुर्णामायुपामन्यतरैकायुष्कलक्षणमेकमेव बन्धस्थानम् । गोत्रस्य तु नीचैर्गोत्रमुच्चैगोत्रं वा एक बन्धस्थानम् । अत्र च सूचकत्वात् मूत्रस्यैतत् स्वयमेव द्रष्टव्यम् , यथा--अत्र कर्मपञ्चकेऽपि भयस्कारा-ऽल्पतरवन्धी न सम्भवतः, तल्लक्षणायोगात् । अवक्तव्यवन्धावस्थितबन्धौ तु वेदनीयवर्जकर्मचतुष्टये सम्भवतः। तथाहि--ज्ञानावरणा-ऽन्तराय-गोत्राणामुपशान्तमोहावस्थायां सर्वथाऽबन्धको भूत्वा प्रतिपत्य यदा पुनस्तान्येव बध्नाति तदा प्रथमसमयेऽवक्तव्यबन्धः । आयुपस्तु यदा त्रिभागादिसमयादौ बन्धकस्तदा प्रथमसमयेऽवक्तव्यबन्धः, द्वितीयादिसमयेषु त्यवस्थितबन्धः । वेदनीयद्विकस्य त्ववस्थितबन्धोऽस्ति, प्रभूतकालमवस्थितत्वेन बध्यमानत्वात् , अवक्तव्यबन्धस्तु न सम्भवति, स हि सर्वथाऽबन्धको भूत्वा यदा प्रतिपत्य पुनस्तदेव बध्नाति तदा सम्भवति, न चैतद् वेदनीयेऽस्ति, तस्य सर्वथाऽबन्धकत्वमयोगिकेवलिचरमसमय एव, न चायोगिकेवलिनो भगवतो भूयो बन्धोऽस्तीति । उक्तं च--
'नाणावरणे तह आउयम्मि गोयम्मि अंतर!ए य । ठियअव्यत्तगबंधा, अवट्ठिया वेयणिजम्मि ॥ (श० बृ० भा० गा० ३१७) इति ॥२५॥
तदेवं भयस्कारादिप्रकारैश्चिन्तितः प्रकृतिबन्धः । साम्प्रतं स एव स्वामित्वद्वारेण चिन्तनीयःस च गुणस्थानकान्याश्रित्य लघुकर्मस्तवटोकायां मार्गणास्थानकान्याश्रित्य पुनःस्वोपज्ञपन्धस्वामित्वटीकायां विस्तरेण निरूपितस्तत एवावधारणीय इति (प्रकृतिवन्धः समाप्तः ।
इदानी स्थितिबन्धं व्याचिख्यासुः प्रथमं मूलप्रकृतीनामुत्कृप्टेतरं तं तावदाह
वीसऽयरकोडिकोडो, नामे गोए य सत्तरी मोहे ।।
तीसियर चउसु उदही, निरयसुराउम्मि तित्तीसा ॥२६॥
अतिमहत्वादुदधिवत तरीतुम्-अचिरात् पारं नेतु न शक्यन्त इत्यतराणि-मागरोपमाणि तेषां कोटिकोटयोऽतरकोटिकोटयः । कियत्यः १ इत्याह--'विंशतिः' 'विंशतिसङ्ख्या भवन्ति । क ? इत्याह--"नामे" ति नामकमणि गोत्रे चोत्कृष्टा स्थितिः, उत्तरगाथायां जघन्यस्थितेर्भणिष्यमाण
१ बहुषु पुस्तकादशेपु रिते० इत्यपि पाठो दृश्यते, एवमग्रेऽपि ज्ञेयम् । २ ज्ञानावरणे तथाऽऽयुष्के गोत्रेऽन्तराये च । स्थिताऽवक्तव्यक जन्धौ अवस्थितो वेदनीये ।।