SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ २५] शतकनामा पञ्चमः कर्मग्रन्थः। बन्धः । अष्टाविंशतिबन्धाद् एकोनत्रिंशद्बन्धं गतस्य प्रथमसमये चतुर्थो भूयस्कारवन्धः ! एकोनत्रिशतं बद्ध्वा त्रिशतं बनत आयसमये पश्चनो भूयस्कारबन्धः । आहारकद्विकसहितां त्रिंशतं बद्ध्वा एकत्रिंशद्वन्धं गतस्याघसमय पष्ठा भूयस्कारवन्धः, अथवा यशःकीर्तिलक्षण मेकविध बद्ध्या श्रेणेनिपततः पुनरपूर्वकरणे एकत्रिंशदादि बनत आयसमये पष्ठ एव भूयस्कारबन्धः, न सप्तमः, एकत्रिंशजक्षणस्थानकस्योभयथाऽप्येकत्वादिति । अल्पतरबन्धाः सप्त पुनरेवम् - अपूक्करणे देवगतिप्रायोग्यामष्टाविंशतिमेकोनत्रिंशतं वा त्रिंशतं वा एकत्रिशतं वा बद्ध्वा तद्वन्धव्यवच्छे दे एकविधवन्धं गतस्याद्यममये प्रथमोऽल्पतरबन्धः । एकत्रिंशद्वन्धाच्च त्रिंशद्वन्धं गतस्याद्यसमये द्वितीयोऽल्पतरबन्धः । एतच्च कथं सम्भवति ? इत्युच्यते-इह कश्चिदाहारकद्विक-तीर्थकरनामसहितां पूर्वाभिहितामेकत्रिंशतंबद्ध्वा दिवि समुत्पन्नः, तस्य प्रथमसमय एव मनुष्यगतिप्रायोग्या पूर्वोक्तामेव त्रिंशतं बध्नत एकत्रिंशतस्त्रिंशति गमनं सम्भवति । ततस्तस्यैव दिवश्च्युन्या मनुष्येषु समुत्पन्नस्य पुनरपि देवप्रायोग्यां तीर्थकरनामसहितां पूर्वाभिहितामेवे कोनत्रिंश बध्नतः प्रथमसमये तृतीयोऽल्पतरबन्धः । यदा तु तियग्-मनुष्याणामन्यतरस्तियप्रायोग्यां पूर्वोक्ताकोनत्रिंशतं बवा तथाविधशुद्भिवशाद् देवगतिप्रायोग्यामष्टाविंशतिं बध्नाति तदा प्रथम समये चतुर्थोऽल्पतरवन्धः । अष्टाविंशतेश्च तथाविधसंक्लेशवशादेकेन्द्रियप्रायोग्यपड्विशतिबन्धं गतस्याद्यममये पञ्चमोऽल्पतरबन्धः । पड्विशतिबन्धात् पञ्चविंशतिबन्धं गतस्याद्यसमये षष्ठोऽल्पतरबन्धः । पञ्चविंशतिबन्धादपि त्रयोविंशतिबन्धं गतस्याद्यसमये सप्तमोऽल्पतरबन्धः । एतेष्वष्टस्वपि बन्धस्थानेषु द्वितीयादिसमयेषु सर्वत्रावस्थितवन्धो लभ्यत इत्यवस्थित्बन्धा अष्टौ । अथावक्तव्यकबन्धास्त्रयः पुनरेवम्-उपशान्तमोहावस्थायां नामकर्मणः सर्वथा अबन्धको भूत्वा इहैवोपशान्ताद्धाक्षयेण प्रतिपत्य यदा पुनरप्येकविधं बध्नाति तदाद्यसमये प्रथमोऽवक्तव्यबन्धः। अथवोपशान्तमोहावस्थायामेवायुःक्षणानुत्तरसुरेषु समुत्पद्यते उपात्ततीर्थकरनामा च भवति तदा तस्य प्रथमसमय एव मनुष्यगतिप्रायोग्यां पूर्वोक्तरूपां तीर्थकर सहितां त्रिंशतं बनतो द्वितीयो. ऽवक्तव्यवन्ध । अथवाऽनुपात्ततीर्थकरनामा यदा भवति तदा तस्य तीर्थकरनामरहितां तत्रैव मनुष्यगतिप्रायोग्यामेकोनत्रिंशतं वध्नतः प्रथमसमये तृतीयोऽवक्तव्यबन्धः । तदेवं भाविता नामकर्मणि पड् भूयस्कारबन्धाः सप्ताल्पतरबन्धा अशाववस्थितबन्धाः त्रयोऽवक्तव्यबन्धाः। उक्तं च 'छ ब्भयगारबंधा, मत्तेव हवंति अप्पतरबंधा । तिण्णऽव्यत्तगवंधा, अघट्ठिया अट्ठ नामम्मि ।। (श० वृ० भा० गा० २९५) १ षड़ भूयस्कारबन्ध : स्प्तेव भवन्त्यल्पतरबन्धाः । त्रयोऽवक्तव्यबन्धा अवस्थिता अष्टौ नाम्नि ।।
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy