________________
२८
देवेन्द्रसूरिविरचितः स्वोपनटोकोपेतः
[ गाथा वध्यते । तद्यथा-तिर्यग्गतिः तिर्यगानुपूर्वी पञ्चेन्द्रियजातिः औदारिकशरीरम् औदारिकाङ्गोपाङ्ग तेजम-कामणे पण्णां संस्थानाना मेकतमन संस्थानं पण्णां संहननानामेकतमन संहननं वर्णचतुष्टयम् अगुल्लघु उपघातम् पराघातम् उच्छ्वासनाम प्रशस्ता-प्रशस्तविहायोगत्योरे करा बननाम बादरनाम पर्याप्तकलाम प्रत्येकनाम स्थिरा-ऽस्थिरयोरे कतरं शुभा-ऽशुःभयो रे कतरं मुमगदर्भगयोरेकत सुस्वर-दुःस्वरयोरेकतरम् आदेया-ऽनादेययोरेशतरं यशःकीर्ति-अयशकीयोरेकतरं निर्माणमिति । त्रिंशत् पुनरियम् - देवगतिः देवानुपूर्वी पञ्चेन्द्रियजानिः वैक्रियाशी क्रियाङ्गोपाङ्गम् आहारकशरीरम् आहारकाङ्गोपाङ्गं तेजस-कार्मणे समचतुरमसंस्थानं वर्णचतुष्कम् अगुरुलघु उपघातं पराघातम् उच्छ्वासं प्रशस्तविहायोगतिः त्रसं बादरं पर्याप्तकं प्रत्येक स्थिरं शुभं सुभगं मुम्वरम् आदेयं यशःकीर्तिनाम निर्माणनामेति । इदं च देवगतिप्रायोम्यं नतोऽप्रमनसंयतस्यापूर्वकरणस्य वा वेदितव्यम् । अथवा कश्चिद् बद्धतीर्थकरनामकर्मा दिवि समुत्पन्नः पुनरपि मनुष्येषु समुत्पत्स्यत इति मनुष्यगतिप्रायोग्यां तीर्थकरनामसहितां त्रिंशतं देवो बध्नाति । तद्यथा-मनुष्यगति-मनुष्यानुपूयों पञ्चेन्द्रियजातिः औदारिकशरीरम् औदारिकाङ्गोपागं समचतुरस्त्र संस्थानं वज्रपभनाराचमंहननं पराघातम् उच्छ्वासप्रशस्तविहायोगतिः त्रसंबादरं पयाप्तं प्रत्येक स्थिरा-ऽस्थिरयोरेकतरं शुभा-ऽशुभयोरेकतरं यशः कीर्ति-अयशः कीत्यो रेकतरं सुभगं सुस्वरम आदेयं तीर्थकरनाम वर्णचतुष्क तैजस-कार्मणा-ऽगुरुलघु-निर्माण-उपघातनामेति । एकत्रिंशत एनरेवम्-देवगति-देवानुपूव्यों पञ्चेन्द्रियजातिः वैक्रियशरीरं वैक्रियाङ्गोपाङ्गय आहारकशरीरम् आहारकाङ्गोपाङ्ग तेजस-कार्मणे च समचतुरस्रसंस्थानं वर्णचतुष्कम् अगुरुलघु उपघातं पगघातम् उच्छ्वासं प्रशस्तविहायोगतिः वसं बादरं पर्याप्तं प्रत्येकं स्थिरं शुभं सुभगं सुस्वरम् आदेयं यश कीर्तिनाम निर्माणं तीर्थकरनामेति । तां चाऽप्रमत्तयतिः कियन्तमपि च भागं यावद् अपूर्वकरणश्च देवगतिप्रायोग्यामेव बध्नाति । एकविधवन्धं तु यशःकीर्तिस्वरूपम् अपूर्वकरणाऽनिवृत्तिवादर-मूक्ष्मसम्परायाः स्वरूपेणेव बध्नन्ति, न तु कस्यचित प्रायोग्यं, देवगतिप्रायोग्यस्यापि बन्धस्यापूर्वकरणमध्ये व्यवच्छिन्नत्वात् ।।
तदेवं स्वरूपतोऽष्टाव प्युक्तानि नामकर्मणो बन्धस्थानानि । साम्प्रतमेतेषु प्रकृता भूयस्कारादिवन्धा भाव्यन्ते- "छस्सगअट्ठतिबंध" त्ति बन्धशब्दो भूयस्कारादिपु योजनीयः, ततो भूयस्कारबन्धाः पड, अल्पतरबन्धाः सप्त, अवस्थितबन्धा अष्टी, अवक्तव्यवन्धास्त्रय इति । तत्र भूयस्कारबन्धाः षडेवम्-कस्यचिद् अपर्याप्त केन्द्रियप्रायोग्यां त्रयोविंशति बद्धवा तत्प्रायोग्यविशुद्धिवशात् पञ्चविंशतिविधवन्धं गतस्याघसमये प्रथमो भूयस्कारबन्धः । ततोऽपि पञ्चविंशतिबन्धात् तत्प्रायोग्यविशुद्धिवशतः पविशतिवन्धं गतस्य प्रथमसमये द्वितीयो भूयस्कारबन्धः । षड्विंशतिविधबन्धाद् अष्टाविंशतिबन्धं गतस्य प्रथमसमये तृतीयो भूयस्कार