SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ २४-२५] शतकनामा पञ्चमः कर्मग्रन्थः । ___ 'नामे" ति नामकर्मणि बन्धस्थानान्यष्टो भवन्ति । तद्यथा-विंशतिशब्दस्य प्रत्येक सम्बन्धात् त्रयोविंशतिः पञ्चविंशतिः पड्विंशतिः अष्टाविंशतिः एकोनत्रिंशद् त्रिंशद् एकत्रिंशद् एका चेति । उक्तं च सप्ततिकायाम्-- तेवीस' पन्नवीसा, छब्बीसा अट्ठवीस गुणतीसा । तीसेगतीसमेगं, बंधट्टाणाणि नामस्स ।। ( गा० २५) तत्र वर्गचतुष्का-ने जस-कारणा- गुरु लघु-निर्माण-उपघातम् इत्येता नव प्रकृतयो ध्रुवबन्धिन्यः, सर्वैरपि चतुर्गतिकजीवरप्राप्त विशिष्टगुणैः प्रतिसमयमवश्यं बध्यमानत्वात् ; तथा निर्यग्गतिः तिर्यगानुपूर्वी एकेन्द्रियजातिः औदारिकशरीरं हुण्डसंस्थानं स्थावरं बादर-सूक्ष्मयोरन्यतम् अपर्याप्तकं प्रत्येक-नाधारणयोरन्यतरद् अस्थिरनाम अशुभनाम दुर्भगनाम अनादेयनाम अयश कीर्तिनाम इत्येताश्चतुर्दश प्रकृतयो ध्रुवबन्धिनीभिनेवभिः सह त्रयोविंशतिरिति एतासां त्रयोविंशतिप्रकृतीनां समुदाय एक बन्धस्थानम् , एवमुत्तरत्रापि भावनीयम् । एतां च त्रयोविंशतिमेकेन्द्रिय-द्वीन्द्रिय--त्रीन्द्रिय--चतुरिन्द्रिय-पञ्चेन्द्रियाणामन्यतरो मिथ्यादृष्टिरेवापर्याप्तैकेन्द्रियप्रायोग्यां बध्नाति । पञ्चविंशतिं पुनः पर्याप्तैकेन्द्रियप्रायोग्यां तत्रोत्पादयोग्या नानाजीवा बध्नन्ति । तत्र च त्रयोविंशतिः पूर्वोक्तेव पराघात-उच्छ्वासाभ्यां सह पञ्चविंशतिर्भवति, नवरमपर्याप्तकम्थाने पर्याप्तकं, स्थिरा-ऽस्थिर-शुभा-ऽशुभ-यशःकीर्ति-अयशःकीर्तीनां परावृत्तिाच्या, एवमेषा पञ्चविंशतिग्न्येषामपि विकलेन्द्रियादिजीवानां प्रायोग्यानानाभङ्गः सम्भवति, केवलं ग्रन्थविस्तरभयाद् नेहोच्यते, सप्ततिकाटीकायां तद्विस्तरोऽन्वेपणीयः । एवमुत्तरेष्वपि बन्धस्थानेषु गमनिकामात्रमेवाभिधास्यत इति । एपेव पञ्चविंशतिरातप-उद्योतयोरेकतरप्रक्षेपे षड्विंशतिर्भवति, सा च पर्याप्तकेन्द्रियप्रायोग्यैव बध्यते नान्यप्रायोग्या, बन्धकाश्च तत्रोत्पादयोग्या जीवा द्रष्टव्याः । अष्टाविंशतिं तु देवगतिप्रायोग्यां तिर्थङ्-मनुष्यास्तत्प्रायोग्यविशुद्धा बध्नन्ति । तद्यथा-देवगतिः देवानुपूर्वी पञ्चेन्द्रियजातिः वैक्रियशरीरं वैक्रियाङ्गोपाङ्गं समचतुरस्राथानम् उच्छ्वासनाम पराघातनाम प्रशस्तविहायोगतिनाम त्रसनाम बादग्नाम पर्याप्तकनाम प्रत्येकनाम स्थिरा-ऽस्थिरयोः शुभा-ऽशुभयोर्यशःकीर्ति-अयशःकीयोः पृथगेकैकमन्यतरद्वाच्यं सुभगनाम सुस्वरनाम आदेयनाम वर्णचतुष्क-तैजस-कार्मणा-ऽगुरुलघु-निर्माण-उपघातमित्यष्टाविंशतिर्भवति । एषा च मिथ्यादृष्टि सास्वादन-मिश्रा-ऽविरतानां देवगतिप्रायोग्यं बध्नतामवसेया । एषैवाष्टाविंशतिस्तीर्थकरनामकर्मणो बन्धे प्रक्षिप्ते एकोनत्रिंशद् भवति, तां च सम्यग्दर्शनिनो मनुष्या एव बद्धतीर्थकरनामानो देवगतिप्रायोग्यां बध्नन्ति । यदि वा पर्याप्तपञ्चेन्द्रियतियेक्प्रायोग्याऽपीयमेकोनत्रिंशद् १ त्रयोविंशतिः पञ्चविंशतिःषविंशतिः अष्टाविंशतिः एकोनत्रिंशत् । त्रिंशदेकत्रिंशदेकं बन्धस्थानानि नाम्नः॥
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy