________________
देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः
[गाथा चतुर्थो भयस्कारबन्धः । पञ्चविधाद् नवविधवन्धं गतस्य पञ्चमो भूयस्कारबन्धः । नवविधात त्रयोदशविधवन्धं गतस्य पष्ठो भूयस्कारबन्धः । त्रयोदशविधात् सप्तदशविधवन्धं गतस्य सप्तमो भयस्कारबन्धः । सप्तदशविधाद् एकविंशतिविधबन्धं गतस्याष्टमो भूयस्कारबन्धः । एकविंशतिविधाद् द्वाविंशतिविधवन्धं गतस्य नवनो अयस्काग्बन्धः । अल्पतराः पुनरेवमष्टो भवन्ति । तथाहि-द्वाविंशतिविधबन्धात् सप्तदश विधवन्धं गतस्य प्रथमोऽल्पतरबन्धः । सप्तदशविधात् त्रयोदशविधवन्धं गतस्य द्वितीयोऽल्पतरबन्धः । त्रयोदशविधबन्धाद् नवविधयन्धं गतस्य तृतीयोऽल्पतरवन्धः । नवविधबन्धात् पञ्चविधवन्धं गतस्य चतुर्थोऽल्पनरवन्धः । पञ्चविधबन्धाद् चतुर्विधवन्धं गतस्य पञ्चमोऽल्पतरबन्धः । चतुर्विधयन्धान त्रिविधबन्धं गतस्य षष्ठोऽल्पतरबन्धः। त्रिविधबन्धाद् द्विविधयन्धं गतस्य सतमोऽल्पतरबन्धः । द्विविधबन्धाद् एकविधवन्धं गतस्याष्टमोऽल्पतरवन्धः । ननु द्वाविंशतिबन्धादेकविंशतिगमने नवमोऽल्पतरबन्धः कस्माद् नोक्तः ? इति चेत् नैवम् , असम्भवादेव, तथाहि-द्वाविंशतिं मिथ्यादृष्टिरेव बध्नाति, एकविंशतिं तु सास्वादनसम्यग्दृष्टिरेवेत्युक्तम् न च मिथ्यादृष्टिरनन्तरभावेन तास्वादनत्वं ब्रजति येन द्वाविंशतेरेकविंशतिगमनं स्यात् , किन्तु उपशमसम्यग्दृष्टिरेव सास्वादनभावं प्रतिपद्यते, तस्माद् द्वाविंशतेः सप्तदशवन्धगमनमेव भवतीत्यष्टावेवाल्पतरवन्धाः । तथा दशस्वपि मोहनीयबन्धस्थानेषु द्वितीयादिसमये प्ववस्थितबन्धो लभ्यत इति अवस्थित्वन्धा दश । अवक्तव्यबन्धी द्वो पुनरेवम्-यदा हि उपशान्ते मोहनीयस्याऽवन्धको भूत्वा उपशान्ताद्धाक्षयेण प्रतिपत्य पुनरेक संज्वलनलोभं बध्नाति तदाऽऽद्यसमये प्रथमोऽवक्तव्यबन्धः । यदि चोपशान्तमोहावस्थायामेवायुःक्षयेण मृत्वाऽनुत्तरसुरेषु समुत्पद्यते तदा प्रथमसमय एव सप्तदशविधवन्धं बनतो द्वितीयोऽवक्तव्यबन्धः । तदेवं मोहनीये नव भूयस्कारबन्धा अष्टावल्पतरबन्धा दशावस्थितबन्धा द्वायवक्तव्यबन्धाविति भावितम् । उक्तं च
'नव भूअगारवन्धा, अठेव हवंति अप्पतरबंधा । दो अव्यत्तगवन्धा, अवडिया दस उ मोहम्मि ।
(बृहच्छतकवृहद्भाष्यगाथा २६१ ) इति ॥२४॥ सम्प्रति नामकर्मप्रकृतिषु भूयस्कारादिवन्धान प्रतिपिपादयिपुराह-- तिपणछअनवहिया, वीसा तोसेगतोस इग नामे । छस्सगअट्ठतिबंधा, सेसेसु य ठाणमिक्किच कं ॥२५|
१ नव भूयस्कारबन्धा भष्टावेव मवन्त्यल्पतरबन्धाः । द्वाववक्तव्यबन्धौ अवस्थिता दश तु मोहे ॥