________________
२३-२४ ]
शतकनामा पञ्चमः कर्मग्रन्थः ।
[ २५
नानि भवन्ति । तद्यथा--' -- "दुइङ्गवीस" त्तिविंशतिशब्दस्य प्रत्येकं सम्बन्धाद् द्वाविंशतिः एकविंशतिः सप्तदश त्रयोदश नव पञ्च चतस्रः तिस्रो द्वे एका च । उक्तं च सप्ततिकाशम् - 'बावीस इक्कीसा, सत्तरसा तेरसेव नव पंच |
चउजिंग दुगं च एवं बंधङ्काणाणि मोहस्स || ( गा० ११)
तत्र सम्यक्त्व - सम्यग्मिथ्या बन्धे न भवतः, "न य बंधे सम्ममीसाई" (पञ्चमं० गा० १२८) इति वचनात् । न च त्रयाणां वेदानां युगपद् बन्धः किन्त्वेककालमेकस्यैव । हास्यरवियुगला-रति-शोकयुगले अपि न युगपद् बन्धमायातः किन्त्वेकतरमेव युगलम् । ततो मोहनीम्योत्कर्षतः प्रभूतप्रकृतिबन्धो द्वाविंशतिः - मिथ्यात्वं १ पोडश कषायाः १६ एको वेदः १ अन्यतरयुगलं २ भयं १ जुगुप्सा १ इति । सा च मिथ्यादृष्टिगुणस्थानकं प्राप्यते । ततः सास्वादनसम्यग्दृष्टिगुणस्थानके मिथ्यात्वबन्धाभावादेकविंशतिः । यद्यप्यत्र नपुंसक वेदस्यापि बन्धो न भवति तथापि तत्स्थाने स्त्रीवेदः पुरुषवेदो वा प्रक्षिप्यत इत्येकविंशतेरेव बन्धः । ततो / मिश्रा ऽविरतसम्यग्दृष्टिगुणस्थानकयोरनन्तानुबन्धिनामपि बन्धाभावात् सप्तदश । ततोऽपि देशविर तिगुणस्थानकेऽप्रत्याख्यानावरणकपायाणां बन्धाभावात् त्रयोदश । ततोऽपि प्रमत्ता-प्रमत्ता पूर्वकरण गुणस्थानकेषु प्रत्याख्यानावरणकषायाणां बन्धाभावाद् नव । यद्यप्यरति-शोकरूयं युगलं प्रमत्तगुणस्थानक एव व्यवच्छिन्नं तथापि तत्स्थाने हास्य-रतियुगलं प्रक्षिप्यत इत्यप्रमत्ता पूर्वकरणयोर्नवकवन्धो न विरुध्यते । ततो हास्य-रति-भय-जुगुप्सा अपूर्व करणचरम समये चबन्धमाश्रित्य व्यवच्छिद्यन्त इत्यनिवृत्तिवादरसम्पराय गुणस्थानके प्रथमभागे पञ्चानां बन्धः । द्वितीयभागे पुरुपवेदस्याऽभावात् चतसृणां बन्धः । तृतीयभागे सञ्ज्वलनक्रोधस्य बन्धाभावात् तिसृणां बन्धः । चतुर्थभागे संज्वलनमानस्य बन्धाभावाद् द्वयोर्बन्धः । पञ्चमभागे संज्वलनमायाया अपि बन्धाभावादेकस्याः संज्वलन लोभप्रकृतेर्दन्धः । ततः परं बादरसम्परायाभावात् तस्या अपि न बन्धः ।
उक्तानि मोहनीयस्य दश बन्धस्थानानि । अथैतेषु दशसु बन्धस्थानेषु भूयस्कारादीनाह"नव अट्ठ दस दुनि" ति नव भूयस्कारबन्धाः, अष्टावल्पतरबन्धाः, दशावस्थितबन्धाः, द्रावक्तव्यबन्धt | इयमत्र भावना - एकविधबन्धात् प्रतिपत्य उक्तस्वरूपं द्विविधं बनत आसमये प्रथमो भूयस्कारबन्धः । द्विविधात् त्रिविधबन्धं गतस्य द्वितीयो भूयस्कारबन्धः । विविधात् चतुर्विधवन्धं गतस्य तृतीयो भूयस्कारबन्धः । चतुर्विधात् पञ्चविधचन्धं गतस्य
१ द्वाविंशतिः एकविंशतिः सप्रदेश त्रयोदशेव नव पञ्च । चत्वारि त्रीणि टू चैकं बन्धस्थानानि मोहस्य || २. न च बन्धे सम्यक्त्व मिश्र ।। ३ पश्चसंग्रहे तु " बंधे नो सम्मनीस्साई" इति पाठः ||
4